Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 712
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - पुर उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
4
यु꣣ञ्ज꣢न्ति꣣ ह꣡री꣢ इषि꣣र꣢स्य꣣ गा꣡थ꣢यो꣣रौ꣡ रथ꣢꣯ उ꣣रु꣡यु꣢गे वचो꣣यु꣡जा꣢ । इ꣣न्द्रवा꣡हा꣢ स्व꣣र्वि꣡दा꣢ ॥७१२॥
स्वर सहित पद पाठयुञ्ज꣡न्ति꣢ । हरी꣢꣯इ꣡ति꣢ । इषिर꣡स्य꣢ । गा꣡थ꣢꣯या । उ꣣रौ꣢ । र꣡थे꣢꣯ । उ꣣रु꣡यु꣢गे । उ꣣रु꣢ । यु꣣गे । वचोयु꣡जा꣢ । व꣣चः । यु꣡जा꣢꣯ । इ꣣न्द्रवा꣡हा꣢ । इ꣣न्द्र । वा꣡हा꣢꣯ । स्व꣣र्वि꣡दा꣢ । स्वः꣣ । वि꣡दा꣢꣯ ॥७१२॥
स्वर रहित मन्त्र
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा । इन्द्रवाहा स्वर्विदा ॥७१२॥
स्वर रहित पद पाठ
युञ्जन्ति । हरीइति । इषिरस्य । गाथया । उरौ । रथे । उरुयुगे । उरु । युगे । वचोयुजा । वचः । युजा । इन्द्रवाहा । इन्द्र । वाहा । स्वर्विदा । स्वः । विदा ॥७१२॥
सामवेद - मन्त्र संख्या : 712
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथोपासकाः किं कुर्वन्तीत्याह।
पदार्थः -
उपासका जनाः किल (इषिरस्य) सर्वान्तर्यामिनः परमेश्वरस्य (गाथया) यशोगीतिकया सह (उरुयुगे) पृष्ठवंशरूपविस्तीर्णधुरायुक्ते (उरौ) विशाले (रथे) देहरथे (वचोयुजा) वचनसमकालमेव युज्यमानौ (इन्द्रवाहा) इन्द्रेण जीवात्मना उह्यमानौ प्रेर्यमाणौ (स्वर्विदा) ज्ञानकर्मप्रापकौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युञ्जन्ति) योजयन्ति ॥३॥
भावार्थः - परमेश्वरोपासनया सह जीवने ज्ञानसंचयः पुरुषार्थश्चापि कार्यः ॥३॥ अस्मिन् खण्डे आत्मोद्बोधनजीवात्मपरमात्मगुरु- शिष्यादिवर्णनादे—तत्खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या।
टिप्पणीः -
१. ऋ० ८।९८।९, अथ० २०।१००।३, उभयत्र ‘उ॒रुयुगे॑। इ॒न्द्र॒वाहा॑ वचो॒युजा॑।’ इति पाठः।