Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 713
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥७१३॥

स्वर सहित पद पाठ

पा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्वा । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । म꣡ꣳहि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥७१३॥


स्वर रहित मन्त्र

पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥७१३॥


स्वर रहित पद पाठ

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्वा । साहम् । शतक्रतुम् । शत । क्रतुम् । मꣳहिष्ठम् । चर्षणीनाम् ॥७१३॥

सामवेद - मन्त्र संख्या : 713
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे शिष्याः ! (वः) यूयम् (अन्धसः) विद्यारसस्य (पान्तम्) रक्षां कुर्वाणम्, (विश्वासाहम्) कामक्रोधाज्ञानालस्यादिसमस्तरिपूणां पराभवितारम्, (शतक्रतुम्) बहुप्रज्ञं बहुकर्माणं च, चर्षणीनाम्) पुरुषार्थिनां छात्राणाम् (मंहिष्ठम्) अतिशयेन विद्यायाः सद्वृत्तस्य च दातारम् (इन्द्रम् अभि) अगाधज्ञानाद्यैश्वर्येण शोभमानम् आचार्यम् अभिलक्ष्य (प्र गायत) प्रकृष्टतया स्तुतिं कुरुत ॥१॥

भावार्थः - ये शिष्या विद्यायाः समुद्रं शिक्षणकलाकुशलं सदाचारिणं ब्रह्मिष्ठं गुरुं श्रद्धया परिचरन्ति ते विद्वांसः सदाचारिणो ब्रह्मवेत्तारः सन्तोऽभ्युदयं लभन्ते ॥१॥

इस भाष्य को एडिट करें
Top