Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 740
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
आ꣢꣫ त्वेता꣣ नि꣡ षी꣢द꣣ते꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । स꣡खा꣢य꣣ स्तो꣡म꣢वाहसः ॥७४०॥
स्वर सहित पद पाठआ꣢ । तु । आ । इ꣣त । नि꣢ । सी꣣दत । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः ॥७४०॥
स्वर रहित मन्त्र
आ त्वेता नि षीदतेन्द्रमभि प्र गायत । सखाय स्तोमवाहसः ॥७४०॥
स्वर रहित पद पाठ
आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत । सखायः । स । खायः । स्तोमवाहसः । स्तोम । वाहसः ॥७४०॥
सामवेद - मन्त्र संख्या : 740
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १६४ क्रमाङ्के परमात्मपक्षे राष्ट्रपक्षे च व्याख्याता। अत्र आत्मोद्बोधनमाह।
पदार्थः -
हे (स्तोमवाहसः) स्तोमान् गीतानि वाहयन्ति गायन्तीति तादृशाः (सखायः) सुहृदः ! यूयम् (तु) क्षिप्रम् (आ एत) आगच्छत, (नि षीदत) उपविशत, (इन्द्रम् अभि) स्वान्तरात्मानमभिलक्ष्य (प्र गायत) प्रकृष्टतया उद्बोधनगीतानि उच्चारयत ॥१॥२
भावार्थः - परस्परमेकीभूयाऽऽत्मोद्बोधनेन सा शक्तिर्जागर्ति यथा मार्गस्य सर्वा अपि बाधा निराकर्त्तुं शक्यन्ते ॥१॥
टिप्पणीः -
१. ऋ० १।५।१, अथ० २०।६८।११, साम० १६४। २. ऋग्भाष्ये दयान्दर्षिणा मन्त्रोऽयं परमेश्वरपक्षे शिल्पविद्यापक्षे च व्याख्यातः।