Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 741
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
पु꣣रूत꣡मं꣢ पु꣣रूणा꣡मीशा꣢꣯नं꣣ वा꣡र्या꣢णाम् । इ꣢न्द्र꣣ꣳ सो꣢मे꣣ स꣡चा꣢ सु꣣ते꣢ ॥७४१॥
स्वर सहित पद पाठपु꣣रूत꣡म꣢म् । पु꣣रूणा꣢म् । ई꣡शा꣢꣯नम् । वा꣡र्या꣢꣯णाम् । इ꣡न्द्र꣢꣯म् । सो꣡मे꣢꣯ । स꣡चा꣢꣯ । सु꣣ते꣢ ॥७४१॥
स्वर रहित मन्त्र
पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रꣳ सोमे सचा सुते ॥७४१॥
स्वर रहित पद पाठ
पुरूतमम् । पुरूणाम् । ईशानम् । वार्याणाम् । इन्द्रम् । सोमे । सचा । सुते ॥७४१॥
सामवेद - मन्त्र संख्या : 741
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - आत्मोद्बोधनानन्तरमथ परमात्मविषयमाह।
पदार्थः -
हे सखायः ! (पुरूणाम्) पूर्णानां पालकानां वा (पुरूतमम्२)पूर्णतमं पालकतमं वा। [पॄ पालनपूरणयोः इत्यस्मात् ‘पृभिदिव्यधिगृधिधृषिहृषिभ्यः। उ० १।२३’ इत्यनेन कुः प्रत्ययः।] (वार्याणाम्) वरणीयानां गुणानाम् (ईशानम्) अधीश्वरम् (इन्द्रम्)परमात्मानं प्रति (सुते) श्रद्धारसे अभिषुते सति (सचा) सम्मिल्य, ‘प्रगायत’ इति पूर्वमन्त्रादाकृष्यते, स्तुतिगीतानि गायत ॥२॥३
भावार्थः - यः स्वयं पूर्णोऽन्येषां च पूरको निखिलगुणगणविभूषितः परमेश्वरोऽस्ति स सर्वैः सम्मिल्य श्रद्धया समुपास्यः ॥२॥
टिप्पणीः -
१. ऋ० १।५।२, अथ० २०।६८।१२। २. पुरुतमं पुरून् बहून् शत्रून् तामयति ग्लापयतीति पुरुतमः, तमु ग्लानौ इति धातोर्ण्यन्तात् पचाद्यचि चित्त्वादन्तोदात्तेऽपि पा० ६।१।१६३ कृदुत्तरपदप्रकृतिस्वरं पा० ६।२।१३ बाधित्वा “परादिश्छन्दसि बहुलम्” पा० ६।२।१९९ इत्युत्तरपदाद्युदात्तत्वम्—इति सा०। तत्तु पदकारविरुद्धम् पदपाठेऽवग्रहाभावात्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं परमात्मपक्षे भौतिकवायुपक्षे च व्याचष्टे।