Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 749
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
5

ए꣣ना꣡ वो꣢ अ꣣ग्निं꣡ नम꣢꣯सो꣣र्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे । प्रि꣣यं꣡ चेति꣢꣯ष्ठमर꣣ति꣡ꣳ स्व꣢ध्व꣣रं꣡ विश्व꣢꣯स्य दू꣣त꣢म꣣मृ꣡त꣢म् ॥७४९॥

स्वर सहित पद पाठ

ए꣣ना꣢ । वः꣣ । अग्नि꣢म् । न꣡म꣢꣯सा । ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । प्रिय꣢म् । चे꣡ति꣢꣯ष्ठम् । अरति꣢म् । स्व꣣ध्वर꣢म् । सु꣣ । अध्वर꣢म् । वि꣡श्व꣢꣯स्य । दू꣣त꣢म् । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् ॥७४९॥


स्वर रहित मन्त्र

एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिꣳ स्वध्वरं विश्वस्य दूतममृतम् ॥७४९॥


स्वर रहित पद पाठ

एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे । प्रियम् । चेतिष्ठम् । अरतिम् । स्वध्वरम् । सु । अध्वरम् । विश्वस्य । दूतम् । अमृतम् । अ । मृतम् ॥७४९॥

सामवेद - मन्त्र संख्या : 749
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे सखायः ! अहम् (ऊर्जोनपातम्) बलस्य प्राणशक्तेश्च न पातयितारम्, वर्द्धकमिति यावत्, (प्रियम्) प्रेमार्हम्, (चेतिष्ठम्) अतिशयेन चेतयितारम्, (अरतिम्) गतिशीलम्, (स्वध्वरम्) शोभनः अध्वरः यज्ञः येन तम् (विश्वस्य दूतम्) सर्वस्यापि यजमानजनस्य दौत्यमिवाचरन्तम्, यथा दूतो वार्ताहरणे उभयोः पक्षयोः माध्यमं जायते तथैव योऽग्निर्हुतं द्रव्यं सूक्ष्मीकृत्य तत्सुगन्धस्य सर्वत्र प्रसारणे माध्यमं भवतीति कृत्वा तस्य दूतत्वमुक्तम्, (अमृतम्) सर्वेषु पदार्थेष्वव्यक्ततयाऽवस्थानाद् अमरणधर्माणम् (अग्निम्) यज्ञाग्निम् (वः) युष्मभ्यम्, अस्मभ्यं चेत्यपि द्योत्यते, युष्मदस्मद्धितायेति भावः (एना) एनेन प्रत्यक्षं दृश्यमानेन (नमसा) श्रद्धाभावेन, अन्नादिहविषा वा। [नमः इत्यन्ननामसु पठितम्।] (आहुवे) आजुहोमि ! [हु दानादनयोः, जुहोत्यादिः,छान्दसः शपः श्लोरभावः] ॥१॥१

भावार्थः - अग्निहोत्रेण यथा जलवाय्वादिकस्य शुद्धिर्जायते तथैवान्तःकरणस्यापि शुद्धिर्भवति, देहात्मबलं प्राणशक्तिजागरूकता त्यागभावना चापि प्राप्यते ॥१॥

इस भाष्य को एडिट करें
Top