Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 760
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
दु꣣हानः꣢ प्र꣣त्न꣡मित्पयः꣢꣯ प꣣वि꣢त्रे꣣ प꣡रि꣢ षिच्यसे । क्र꣡न्दं꣢ दे꣣वा꣡ꣳ अ꣢जीजनः ॥७६०॥
स्वर सहित पद पाठदुहानः꣢ । प्र꣡त्न꣢म् । इत् । प꣡यः꣢꣯ । प꣣वि꣡त्रे꣢ । प꣡रि꣢꣯ । सि꣣च्यसे । क्र꣡न्द꣢꣯न । दे꣣वा꣢न् । अ꣣जीजनः ॥७६०॥
स्वर रहित मन्त्र
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे । क्रन्दं देवाꣳ अजीजनः ॥७६०॥
स्वर रहित पद पाठ
दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यसे । क्रन्दन । देवान् । अजीजनः ॥७६०॥
सामवेद - मन्त्र संख्या : 760
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
हे रसागार परमात्मसोम ! (प्रत्नम् इत्) पुराणम् एव (पयः) आनन्दरसम् (दुहानः) प्रयच्छन्, त्वम् (पवित्रे) परिपूते हृदये (परिषिच्यसे) प्रवाह्यसे। (क्रन्दन्) कल-कलशब्दं कुर्वन्निव त्वम् हृदये (देवान्) दिव्यतरङ्गान् (अजीजनः) जनयसि ॥३॥
भावार्थः - परमात्मस्तवनादुपासकस्य हृदये ब्रह्मानन्दप्रवाहाः प्रवहन्ति ॥३॥
टिप्पणीः -
३. ऋ० ९।४२।४।