Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 761
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
उ꣡प꣢ शिक्षापत꣣स्थु꣡षो꣢ भि꣣य꣢स꣣मा꣡ धे꣢हि꣣ श꣡त्र꣢वे । प꣡व꣢मान वि꣣दा꣢ र꣣यि꣢म् ॥७६१॥
स्वर सहित पद पाठउ꣡प꣢꣯ । शि꣣क्ष । अपतस्थु꣡षः꣢ । अ꣣प । तस्थु꣡षः꣢ । भि꣣य꣡स꣢म् । आ । धे꣣हि । श꣡त्र꣢꣯वे । प꣡व꣢꣯मान । वि꣣दाः꣢ । र꣣यि꣢म् ॥७६१॥
स्वर रहित मन्त्र
उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे । पवमान विदा रयिम् ॥७६१॥
स्वर रहित पद पाठ
उप । शिक्ष । अपतस्थुषः । अप । तस्थुषः । भियसम् । आ । धेहि । शत्रवे । पवमान । विदाः । रयिम् ॥७६१॥
सामवेद - मन्त्र संख्या : 761
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - अथ प्रथमायामृचि परमात्मा नृपतिश्च सम्बोध्यते।
पदार्थः -
प्रथमः—परमात्मपक्षे। हे (पवमान) पवित्रताप्रदायक सर्वान्तर्यामिन् सोम परमात्मन् ! त्वम् (अपतस्थुषः) अस्मद्दूरे स्थितान् सद्गुणान् (उपशिक्ष) अस्मत्समीपम् आनय। (शत्रवे) कामक्रोधादिकाय रिपवे (भियसम्) भीतिम् (आधेहि) कुरु। अस्मभ्यं च (रयिम्) सत्याहिंसान्यायादिरूपां दिव्यां सम्पदम् (विदाः) प्रापय ॥ द्वितीयः—नृपतिपक्षे। हे पवमान गतिमय कर्मशूर राजन् ! [पवते गतिकर्मा निघं० २।१४।] त्वम् (अपतस्थुषः) अस्मत्सकाशादपगत्य विरोधिपक्षे स्थितान् वीरान् (उपशिक्ष) दण्डय, (शत्रवे) रिपवे (भियसम्) भयम् (आधेहि) उत्पादय। अस्मभ्यं च (रयिम्) धनधान्यसुवर्णसम्पत्तिम् (विदाः२) लम्भय ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
भावार्थः - यथा परमेश्वरः कामक्रोधादिकान् शत्रून् पराजित्य स्तोत्रे सद्गुणसम्पत्तिं प्रयच्छति तथैव राष्ट्रे राजा शत्रून् धूलिसात्कृत्य प्रजायै सर्वं धनधान्यादिकं प्रयेच्छत् ॥१॥
टिप्पणीः -
१. ऋ० ९।१९।६। २. विद् ज्ञाने, विद्लृ लाभे, विद सत्तायाम् इत्यस्येदं रूपम्—इति वि०।