Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 779
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

य꣡स्य꣢ ते स꣣ख्ये꣢ व꣣य꣡ꣳ सा꣢स꣣ह्या꣡म꣢ पृतन्य꣣तः꣢ । त꣡वे꣢न्दो द्यु꣣म्न꣡ उ꣢त्त꣣मे꣢ ॥७७९॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । ते꣣ । सख्ये꣢ । स꣣ । ख्ये꣢ । व꣣य꣢म् । सा꣣सह्या꣡म꣢ । पृ꣣तन्यतः꣢ । त꣡व꣢꣯ । इ꣣न्दो । द्युम्ने꣢ । उ꣣त्तमे꣢ ॥७७९॥


स्वर रहित मन्त्र

यस्य ते सख्ये वयꣳ सासह्याम पृतन्यतः । तवेन्दो द्युम्न उत्तमे ॥७७९॥


स्वर रहित पद पाठ

यस्य । ते । सख्ये । स । ख्ये । वयम् । सासह्याम । पृतन्यतः । तव । इन्दो । द्युम्ने । उत्तमे ॥७७९॥

सामवेद - मन्त्र संख्या : 779
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्दो) तेजस्विन् जगदीश्वर आचार्य नृपते वा ! (यस्य ते) यस्य तव (सख्ये) सखित्वे (वयम्) वयं स्मः, ते वयम् (पृतन्यतः) पृतनया अभिगच्छतः आन्तरान् बाह्यांश्च शत्रून् (सासह्याम) अतिशयेन पुनः पुनः पराभवेम। अपि च (तव) त्वदीये, त्वया प्रदत्ते (उत्तमे) उत्कृष्टतमे (द्युम्ने) यशसि, स्याम इति शेषः ॥२॥

भावार्थः - सर्वैः परमेश्वरमुपास्य, गुरुं शिष्यत्वेनोपगम्य, नृपतेश्च साहाय्यं प्राप्य सर्वान् कामक्रोधादीनान्तरान् बाह्यांश्च रिपून् निर्मूल्य यशस्विभिर्भाव्यम् ॥२॥

इस भाष्य को एडिट करें
Top