Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 778
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

प꣡व꣢स्वेन्दो꣣ वृ꣡षा꣢ सु꣣तः꣢ कृ꣣धी꣡ नो꣢ य꣣श꣢सो꣣ ज꣡ने꣢ । वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षो꣢ जहि ॥७७८॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । इ꣣न्दो । वृ꣡षा꣢꣯ । सु꣣तः꣢ । कृ꣣धि꣢ । नः꣣ । यश꣡सः꣢ । ज꣡ने꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । ꣡द्विषः꣢꣯ । ज꣣हि ॥७७८॥


स्वर रहित मन्त्र

पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि ॥७७८॥


स्वर रहित पद पाठ

पवस्व । इन्दो । वृषा । सुतः । कृधि । नः । यशसः । जने । विश्वाः । अप । द्विषः । जहि ॥७७८॥

सामवेद - मन्त्र संख्या : 778
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्दो) तेजस्विन् परमात्मन् आचार्य नृपते च (वृषा) विद्यावर्षकः सुखवर्षकश्च, (सुतः) अस्माभिः प्रार्थितः प्रेरितश्च त्वम् (पवस्व) अस्मान् पुनीहि। (जने) जनसमाजे (नः) अस्मान् (यशसः) यशस्विनः (कृधि) कुरु। (विश्वाः द्विषः) सर्वाः द्वेषवृत्तीः, सर्वान् द्वेष्टॄन् वा (अप जहि) विनाशय ॥१॥ अत्रार्थश्लेषालङ्कारः ॥१॥

भावार्थः - जगदीश्वरादाचार्यान्नृपतेश्च विद्यां सुखं पवित्रतां कीर्तिं द्वेषपापादिविनाशं च प्राप्य सर्वे जनाः सफलजीवना भवेयुः ॥१॥

इस भाष्य को एडिट करें
Top