Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 812
ऋषिः - प्रस्कण्वः काण्वः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
8
श꣣ता꣡नी꣢केव꣣ प्र꣡ जि꣢गाति धृष्णु꣣या꣡ हन्ति꣢꣯ वृ꣣त्रा꣡णि꣢ दा꣣शु꣡षे꣢ । गि꣣रे꣡रि꣢व꣣ प्र꣡ रसा꣢꣯ अस्य पिन्विरे꣣ द꣡त्रा꣢णि पुरु꣣भो꣡ज꣢सः ॥८१२॥
स्वर सहित पद पाठश꣣ता꣡नी꣢का । श꣣त꣢ । अ꣣नीका । इव । प्र꣢ । जि꣣गाति । धृष्णुया꣢ । ह꣡न्ति꣢꣯ । वृ꣣त्रा꣡णि꣢ । दा꣣शु꣡षे꣢ । गि꣣रेः꣢ । इ꣣व । प्र꣢ । र꣡साः꣢꣯ । अ꣣स्य । पिन्विरे । द꣡त्रा꣢꣯णि । पु꣣रुभो꣡ज꣢सः । पु꣣रु । भो꣡ज꣢꣯सः ॥८१२॥
स्वर रहित मन्त्र
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥८१२॥
स्वर रहित पद पाठ
शतानीका । शत । अनीका । इव । प्र । जिगाति । धृष्णुया । हन्ति । वृत्राणि । दाशुषे । गिरेः । इव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरुभोजसः । पुरु । भोजसः ॥८१२॥
सामवेद - मन्त्र संख्या : 812
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मानमाचार्यं च वर्णयति।
पदार्थः -
एष इन्द्रः परमैश्वर्यवान् परमात्मा विद्यैश्वर्यवान् आचार्यो वा (दाशुषे) आत्मसमर्पकस्य उपासकस्य शिष्यस्य वा हितार्थम् (धृष्णुया) स्वकीयेन धर्षकगुणेन (शतानीका इव) शतानीकानि शतसंख्यकानि शत्रुसैन्यानि इव (वृत्राणि) उपासकस्य शिष्यस्य वा छिद्राणि (प्र जिगाति) प्र गच्छति आक्रामति इति यावत्। [जिगातिः गतिकर्मा। निघं० २।१४।] (हन्ति) हिनस्ति च। (पुरुभोजसः) बहुपालकस्य (अस्य) परमात्मनः आचार्यस्य वा (दत्राणि) दानानि। (पिन्विरे) उपासकं शिष्यं वा प्रति प्रवहन्ति, (गिरेः इव रसाः) पर्वतस्य यथा जलानि प्रवहन्ति ॥२॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥२॥
भावार्थः - परमात्मानमाचार्यं च प्रति समर्पणभावेन गत्वा, तत्साहाय्येन दोषान् दूरीकृत्यानन्दरसा विद्यारसाश्च प्राप्तव्याः ॥२॥
टिप्पणीः -
१. ऋ० ८।४९।२, अथ० २०।५१।२।