Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 819
ऋषिः - नहुषो मानवः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

स꣡मु꣢ प्रि꣣या꣡ अ꣢नूषत꣣ गा꣢वो꣣ म꣡दा꣢य꣣ घृ꣡ष्व꣢यः । सो꣡मा꣢सः कृण्वते प꣣थः꣡ पव꣢꣯मानास꣣ इ꣡न्द꣢वः ॥८१९॥

स्वर सहित पद पाठ

सम् । उ꣣ । प्रियाः꣢ । अ꣣नूषत । गा꣡वः꣢꣯ । म꣡दा꣢꣯य । घृ꣡ष्व꣢꣯यः । सो꣡मा꣢꣯सः । कृ꣣ण्वते । पथः꣢ । प꣡व꣢꣯मानासः । इ꣡न्द꣢꣯वः ॥८१९॥


स्वर रहित मन्त्र

समु प्रिया अनूषत गावो मदाय घृष्वयः । सोमासः कृण्वते पथः पवमानास इन्दवः ॥८१९॥


स्वर रहित पद पाठ

सम् । उ । प्रियाः । अनूषत । गावः । मदाय । घृष्वयः । सोमासः । कृण्वते । पथः । पवमानासः । इन्दवः ॥८१९॥

सामवेद - मन्त्र संख्या : 819
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—ब्रह्मानन्दरसपक्षे। (प्रियाः) परमेश्वरप्रियाः (घृष्वयः) मानससंघर्षरताः (गावः) स्तोतारः। [गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६।] (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) परमेश्वरं संस्तुवन्ति। तत्स्तवनेन प्राप्ताः (इन्दवः) दीप्ताः क्लेदनकराः वा। [इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१।] (सोमासः) ब्रह्मानन्दरसाः (पवमानासः) स्तोतॄन् पवित्रीकुर्वन्तः, तेषां सम्मुखं (पथः) कर्तव्यमार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥ द्वितीयः—गुरूणां पक्षे। (प्रियाः) प्रीतिकर्यः, मधुराः (घृष्वयः२) घर्षणेन पुनः पुनरभ्यासेन उज्ज्वलाः (गावः) शिष्याणां वाचः (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) गुरून् संस्तुवन्ति। ते (इन्दवः) ज्ञानेन दीप्ताः (सोमासः) ज्ञानप्रेरकाः गुरुजनाः (पवमानासः) शिष्यान् पुनन्तः, तेषां पुरतः (पथः) गन्तव्यान् मार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थः - जनैः परमात्मानं गुरुजनांश्च संस्तूय तत आनन्दरसं ज्ञानरसं च दुग्ध्वा तत्पानेन स्वात्मानं पवित्वा सन्मार्गोऽनुसरणीयः ॥२॥

इस भाष्य को एडिट करें
Top