Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 834
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
आ꣡ नः꣢ सोम꣣ स꣢हो꣣ जु꣡वो꣢ रू꣣पं꣡ न वर्च꣢꣯से भर । सु꣣ष्वाणो꣢ दे꣣व꣡वी꣢तये ॥८३४॥
स्वर सहित पद पाठआ꣡ । नः꣣ । सोम । स꣡हः꣢꣯ । जु꣡वः꣢꣯ । रू꣣प꣢म् । न । व꣡र्च꣢꣯से । भ꣣र । सुष्वाणः꣢ । दे꣣व꣡वी꣣तये । दे꣣व꣡ । वी꣣तये ॥८३४॥
स्वर रहित मन्त्र
आ नः सोम सहो जुवो रूपं न वर्चसे भर । सुष्वाणो देववीतये ॥८३४॥
स्वर रहित पद पाठ
आ । नः । सोम । सहः । जुवः । रूपम् । न । वर्चसे । भर । सुष्वाणः । देववीतये । देव । वीतये ॥८३४॥
सामवेद - मन्त्र संख्या : 834
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मानं प्रार्थयते।
पदार्थः -
हे (सोम) रसागार परमात्मन्। (देववीतये) दिव्यगुणानां प्राप्तये (सुष्वाणः) अभिषुतानन्दरसः त्वम् (नः) अस्मभ्यम् (सहः) आत्मबलम् (जुवः) वेगांश्च। [गत्यर्थाद् जवतेः क्विपि द्वितीयाबहुवचने रूपम्।] (आ भर) आहर, कथमिव ? (वर्चसे) कान्त्यै (रूपं न) यथा रूपम् आहरसि ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - यदा परमात्मनः प्राप्ता आनन्दरसतरङ्गा उपासकस्य हृद्भूमिमाप्लावयन्ति तदा तत्र सर्वे सद्गुणाः स्वयम् अहमहमिकयेव प्रादुर्भवन्ति ॥२॥
टिप्पणीः -
१. ऋ० ९।६५।१८।