Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 836
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
तं꣡ त्वा꣢ नृ꣣म्णा꣢नि꣣ बि꣡भ्र꣢तꣳ स꣣ध꣡स्थे꣢षु म꣣हो꣢ दि꣣वः꣢ । चा꣡रु꣢ꣳ सुकृ꣣त्य꣡ये꣢महे ॥८३६॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । नृम्णा꣡नि꣢ । बि꣡भ्र꣢꣯तम् । स꣣ध꣡स्थे꣢षु । स꣣ध꣡ । स्थे꣣षु । महः꣢ । दि꣣वः꣢ । चा꣡रु꣢꣯म् । सु꣣कृत्य꣡या꣢ । सु꣣ । कृत्य꣡या꣢ । ई꣣महे ॥८३६॥
स्वर रहित मन्त्र
तं त्वा नृम्णानि बिभ्रतꣳ सधस्थेषु महो दिवः । चारुꣳ सुकृत्ययेमहे ॥८३६॥
स्वर रहित पद पाठ
तम् । त्वा । नृम्णानि । बिभ्रतम् । सधस्थेषु । सध । स्थेषु । महः । दिवः । चारुम् । सुकृत्यया । सु । कृत्यया । ईमहे ॥८३६॥
सामवेद - मन्त्र संख्या : 836
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - अथ परमात्मानं कामयते।
पदार्थः -
हे सोम जगत्स्रष्टः परमात्मन् ! (महः दिवः) महतः आकाशस्य (सधस्थेषु) लोकेषु सूर्यग्रहनक्षत्रचन्द्रादिषु, यद्वा (महः दिवः) महतः प्रकाशमयस्य जीवात्मनः (लोकेषु) मनोबुद्धिप्राणेन्द्रियादिषु (नृम्णानि) धनानि बलानि च। [नृम्णमिति धननाम बलनाम च। निघं० २।६, २।१०। नृम्णं च बलं नॄन् नतम्। निरु० ११।७।५] (बिभ्रतम्) धारयन्तम् (चारुम्) रमणीयं (तं त्वा) तं सुप्रसिद्धं त्वां, वयम् (सुकृत्यया) पुण्यकर्मणा (ईमहे) प्राप्नुमः ॥१॥
भावार्थः - भूगोले खगोले देहे च सर्वत्र धनबलयोरुत्पादकः परमेश्वरः शुभैरेव कर्मभिः प्राप्तुं शक्यते, नाशुभैः ॥१॥
टिप्पणीः -
१. ऋ० ९।४८।१।