Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 837
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
सं꣡वृ꣢क्तधृष्णु꣣꣬मुक्थ्यं꣢꣯ म꣣हा꣡म꣢हिव्रतं꣣ म꣡द꣢म् । श꣣तं꣡ पुरो꣢꣯ रुरु꣣क्ष꣡णि꣢म् ॥८३७॥
स्वर सहित पद पाठसं꣡वृ꣢꣯क्तधृष्णुम् । सं꣡वृ꣢꣯क्त । धृ꣣ष्णुम् । उक्थ्य꣢म् । म꣣हा꣡म꣢हिव्रतम् । म꣣हा꣢ । म꣣हिव्रतम् । म꣡द꣢꣯म् । श꣣त꣢म् । पु꣡रः꣢꣯ । रु꣣रु꣡क्षि꣢णम् ॥८३७॥
स्वर रहित मन्त्र
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् । शतं पुरो रुरुक्षणिम् ॥८३७॥
स्वर रहित पद पाठ
संवृक्तधृष्णुम् । संवृक्त । धृष्णुम् । उक्थ्यम् । महामहिव्रतम् । महा । महिव्रतम् । मदम् । शतम् । पुरः । रुरुक्षिणम् ॥८३७॥
सामवेद - मन्त्र संख्या : 837
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मानं राजानं च विशिनष्टि।
पदार्थः -
(संवृक्तधृष्णुम्) संवृक्ताः संछिन्नाः धृष्णवो धर्षणशीलाः कामक्रोधाद्या आन्तरा बाह्या वा रिपवो येन तम्, (उक्थ्यम्) प्रशंसार्हम्, (महामहिव्रतम्) अतिशयपूजनीयकर्माणम्, (मदम्) आनन्दजनकम्, (शतं पुरः) शतसंख्यकाः शत्रुनगरीः (रुरुक्षणिम्) भङ्क्तुं कृतसंकल्पम्।[रुजो भङ्गे सन्नन्तः। बाहुलकाद् औणादिकः अनिप्रत्ययः। आङि शुषेः सनश्छन्दसि उ० २।१०५ आशुशुक्षणिः इति वत्।] पवमानं पवित्रकर्तारं सोमं जगदीश्वरं राजानं वा वयम् (ईमहे) प्राप्नुमः। [अत्र ‘ईमहे’ इति पूर्वमन्त्रादाकृष्यते] ॥२॥
भावार्थः - यथा जगदीश्वर आन्तरान् सपत्नान् हिनस्ति, प्रशंसनीयानि कर्माणि करोति, स्वोपासकानानन्दयति च तथैव राजा सर्वान् विघ्नकरान् शत्रूनुच्छिद्य राज्योन्नतिकराणि कर्माणि कृत्वा प्रजा आनन्दयेत् ॥२॥
टिप्पणीः -
१. ऋ० ९।४८।२।