Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 859
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
7

ति꣣स्रो꣡ वाच꣢꣯ ईरयति꣣ प्र꣡ वह्नि꣢꣯रृ꣣त꣡स्य꣢ धी꣣तिं꣡ ब्रह्म꣢꣯णो मनी꣣षा꣢म् । गा꣡वो꣢ यन्ति꣣ गो꣡प꣢तिं पृ꣣च्छ꣡मा꣢नाः꣣ सो꣡मं꣢ यन्ति म꣣त꣡यो꣢ वावशा꣣नाः꣢ ॥८५९॥

स्वर सहित पद पाठ

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । ई꣣रयति । प्र꣢ । व꣡ह्निः꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣢म् । ब्र꣡ह्म꣢꣯णः । म꣣नीषा꣢म् । गा꣡वः꣢꣯ । य꣣न्ति । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । पृच्छ꣡मा꣢नाः । सो꣡म꣢꣯म् । य꣣न्ति । म꣡त꣢यः । वा꣣वशानाः꣢ ॥८५९॥


स्वर रहित मन्त्र

तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥८५९॥


स्वर रहित पद पाठ

तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् । गावः । यन्ति । गोपतिम् । गो । पतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः ॥८५९॥

सामवेद - मन्त्र संख्या : 859
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(वह्निः) काव्यस्य वाहकः महाकविः (तिस्रः) गद्यपद्योभयात्मिकीः अभिधालक्षणाव्यञ्जनात्मिकाः वा (वाचः) गिरः (प्र ईरयति) प्रयुङ्क्ते। स स्वकाव्ये (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) परमात्मनः (मनीषाम्) स्तुतिं च प्र ईरयति प्रयुङ्क्ते। (गावः) वाचः (गोपतिम्) वाचस्पतिं तं महाकविं, तद्विषये इत्यर्थः (पृच्छमानाः) प्रश्नं कुर्वत्यः इव (यन्ति) गच्छति, क्वाऽऽस्ते स महाकविर्यः स्वकाव्ये प्रयुज्यास्मान् कृतार्थयिष्यति इति पृच्छन्तीवेत्यर्थः। (मतयः) स्तुतयः अपि (सोमम्) तमेव रससिद्धं कविं (वावशानाः) कामयमानाः अन्विष्यन्त्यः इव (यन्ति) गच्छन्ति ॥१॥ अत्रोत्तरार्द्धेऽसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥१॥

भावार्थः - केचन विरला एव रससिद्धाः कवयोऽभिधालक्षणाव्यञ्जनावतीं गद्यपद्योभयात्मिकीं वाचं प्रयुञ्जानाः सात्त्विकानि शान्तिरसमयानि ब्रह्मस्तोत्राणि विरच्य स्वां वाचं कृतकृत्यां कुर्वन्ति ॥१॥

इस भाष्य को एडिट करें
Top