Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 860
ऋषिः - पराशरः शाक्त्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
सो꣢मं꣣ गा꣡वो꣢ धे꣣न꣡वो꣢ वावशा꣣नाः꣢꣫ सोमं꣣ वि꣡प्रा꣢ म꣣ति꣡भिः꣢ पृ꣣च्छ꣡मा꣢नाः । सो꣡मः꣢ सु꣣त꣡ ऋ꣢च्यते पू꣣य꣡मा꣢नः꣣ सो꣡मे꣢ अ꣣र्का꣢स्त्रि꣣ष्टु꣢भः꣣ सं꣡ न꣢वन्ते ॥८६०॥
स्वर सहित पद पाठसो꣡म꣢꣯म् । गा꣡वः꣢꣯ । धे꣣न꣡वः꣢ । वा꣣वशानाः꣢ । सो꣡म꣢꣯म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । मति꣡भिः꣢ । पृ꣡च्छ꣡मा꣢नाः । सो꣡मः꣢꣯ । सु꣣तः꣢ । ऋ꣣च्यते । पूय꣡मा꣢नः । सो꣡मे꣢꣯ । अ꣣र्काः꣢ । त्रि꣡ष्टु꣡भः꣢ । त्रि꣣ । स्तु꣡भः꣢꣯ । सम् । न꣣वन्ते ॥८६०॥
स्वर रहित मन्त्र
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥८६०॥
स्वर रहित पद पाठ
सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । वि । प्राः । मतिभिः । पृच्छमानाः । सोमः । सुतः । ऋच्यते । पूयमानः । सोमे । अर्काः । त्रिष्टुभः । त्रि । स्तुभः । सम् । नवन्ते ॥८६०॥
सामवेद - मन्त्र संख्या : 860
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमकविं परमात्मानं वर्णयति।
पदार्थः -
(धेनवः) प्रीणयित्र्यः (गावः) क्षीरिण्यः वाचो वा (सोमम्) परमकविं परमात्मानमेव (वावशानाः) कामयमानाः, यन्ति इति पूर्वमन्त्रादाकृष्यते। (विप्राः) ज्ञानिनः (मतिभिः) स्तोत्रैः (सोमम्) परमकविं परमात्मानमेव (पृच्छमानाः) पृच्छन्तः यन्ति। (सुतः) ध्यातः (सोमः) परमात्मा (पूयमानः) हृदये प्रेर्यमाणः। [पवते गतिकर्मा। निघं० २।१४।] (ऋच्यते) सहृदयैः स्तूयते। [ऋच स्तुतौ तुदादेः कर्मणि रूपम्।] (सोमे) तस्मिन् परमात्मनि (त्रिष्टुभः) त्रिष्टुप्छन्दस्काः त्रिपाद्गायत्रीछन्दस्काः वा (अर्काः) मन्त्राः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।५।२४।] (सं नवन्ते) संगताः (सन्ति), तमेव प्रतिपादयन्तीत्यर्थः। [नवते गतिकर्मा निघं० २।१४] ॥२॥ अत्र पूर्वार्द्धेऽसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥२॥
भावार्थः - जगति सर्वे प्राणिनः सर्वे चाचेतनाः पदार्थाः स्वस्वकर्मणि संलग्नाः स्वरचयितारं परमात्मानमिवान्विष्यन्ति ॥२॥
टिप्पणीः -
१. ऋ० ९।९७।३५, ‘सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒’ इति तृतीयः पादः।