Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 864
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
7

व꣣यं꣡ घ꣢ त्वा सु꣣ता꣡व꣢न्त꣣ आ꣢पो꣣ न꣢ वृ꣣क्त꣡ब꣢र्हिषः । प꣣वि꣡त्र꣢स्य प्र꣣स्र꣡व꣢णेषु वृत्रह꣣न्प꣡रि꣢ स्तो꣣ता꣡र꣢ आसते ॥८६४॥

स्वर सहित पद पाठ

व꣣य꣢म् । घ꣡ । त्वा । सुता꣡व꣢न्तः । आ꣡पः꣢꣯ । न । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । पवि꣡त्र꣢स्य । प्र꣣स्र꣡व꣢णेषु । प्र꣣ । स्र꣡व꣢꣯णेषु । वृ꣣त्रहन् । वृत्र । हन् । प꣡रि꣢꣯ । स्तो꣣ता꣡रः꣢ । आ꣣सते ॥८६४॥


स्वर रहित मन्त्र

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥८६४॥


स्वर रहित पद पाठ

वयम् । घ । त्वा । सुतावन्तः । आपः । न । वृक्तबर्हिषः । वृक्त । बर्हिषः । पवित्रस्य । प्रस्रवणेषु । प्र । स्रवणेषु । वृत्रहन् । वृत्र । हन् । परि । स्तोतारः । आसते ॥८६४॥

सामवेद - मन्त्र संख्या : 864
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
पुत्रान् गुरुकुले प्रवेशयितुं तैः सहागताः पितरः आचार्यं ब्रुवते—हे आचार्यप्रवर ! (वृक्तबर्हिषः) परित्यक्तान्तरिक्षाः (आपः न) मेघजलानि इव (वृक्तबर्हिषः) परित्यक्तगृहाः२ (सुतवन्तः) पुत्रैः सहिताः (वयम्) पितरः (त्वा घ) त्वां खलु प्राप्ताः स्मः। हे (वृत्रहन्) दोषाणां हन्तः आचार्यश्रेष्ठ ! (स्तोतारः) समित्पाणयो भूत्वा त्वत्सकाशमागताः त्वद्गुणान् गातारः शिष्याः (पवित्रस्य) विशुद्धस्य ज्ञानस्य आचरणस्य च (प्रस्रवणेषु) प्रवाहेषु (परिआसते) परिप्लवन्ति। अतोऽस्मत्पुत्रानुपनीय विदुषः कुर्विति भावः ॥१॥ अत्र श्लिष्टोपमालङ्कारः। कारणरूपेणोत्तरार्द्धवाक्येन कार्यरूपस्य पूर्वार्द्धवाक्यस्य समर्थनादर्थान्तरन्यासोऽपि ॥१॥

भावार्थः - सर्वैर्मातापितृभिः स्वबालकान् स्वबालिकाश्चाचार्यस्याचार्याया वा सकाशे समर्प्य ते ताश्च विद्वांसो विदुष्यश्च कार्याः ॥१॥

इस भाष्य को एडिट करें
Top