Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 863
ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
7

आ꣡ प꣢प्राथ महि꣣ना꣡ वृष्ण्या꣢꣯ वृष꣣न्वि꣡श्वा꣢ शविष्ठ꣣ श꣡व꣢सा । अ꣣स्मा꣡ꣳ अ꣢व मघव꣣न्गो꣡म꣢ति व्र꣣जे꣡ वज्रि꣢꣯ञ्चि꣣त्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥८६३॥

स्वर सहित पद पाठ

आ । प꣣प्राथ । महिना꣢ । वृ꣡ष्ण्या꣢꣯ । वृ꣣षन् । वि꣡श्वा꣢꣯ । श꣣विष्ठ । श꣡व꣢꣯सा । अ꣣स्मा꣢न् । अ꣣व । मघवन् । गो꣡म꣢꣯ति । व्र꣣जे꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥८६३॥


स्वर रहित मन्त्र

आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । अस्माꣳ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥८६३॥


स्वर रहित पद पाठ

आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा । अस्मान् । अव । मघवन् । गोमति । व्रजे । वज्रिन् । चित्राभिः । ऊतिभिः ॥८६३॥

सामवेद - मन्त्र संख्या : 863
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। हे (वृषन्) सुखवर्षक, (शविष्ठ) बलवत्तम जगदीश्वर ! त्वम् (महिना) महिम्ना (शवसा) बलेन च (विश्वा) सर्वाणि (वृष्णया) वृष्ण्यानि बलानि आत्मबलविद्युद्बलवायुबलसूर्यबलादीनि। [वृषसु वीर्यवत्सु भवं वृष्ण्यम्, भवार्थे यत्।] (आ पप्राथ) विस्तारितवानसि। हे (मघवन्) ऐश्वर्यशालिन् ! हे (वज्रिन्) वज्रधर इव दण्डसामर्थ्ययुक्त ! त्वम् (गोमति व्रजे) सूर्यचन्द्रनक्षत्रादिलोकलोकान्तरयुक्तेऽस्मिन् ब्रह्माण्डे (चित्राभिः) अद्भुताभिः (ऊतिभिः) रक्षाभिः (अस्मान्) उपासकान् (अव) पालय ॥ द्वितीयः—जीवात्मपरः ! हे (वृषन्) देहस्थेषु मनोबुद्ध्यादिषु बलवत्तम मदीय आत्मन् ! त्वम् (महिना) महिम्ना (शवसा) बलेन च (विश्वा) सर्वाणि (वृष्ण्या) वृष्ण्यानि प्राणमनोबुद्धीन्द्रियादीनां बलानि (आ पप्राथ) विस्तारयसि। हे (मघवन्) सद्गुणैश्वर्यवन् ! हे (वज्रिन्) वाग्वज्रयुक्त ! [वाग्घि वज्रः। ऐ० ब्रा० ४।१।] त्वम् (गोमति व्रजे) इन्द्रियरूपगोयुक्ते देहरूपे गोष्ठे (चित्राभिः) अद्भुताभिः (ऊतिभिः) रक्षाभिः (अस्मान् अव) पालय ॥२॥ अत्र श्लेषालङ्कारः। ‘वृष्, वृष’ ‘शवि, शव’ इत्यत्र छेकानुप्रासः ॥२॥

भावार्थः - यथा ब्रह्माण्डे सर्वेषु बलवत्सु पदार्थेषु परमेश्वरकृतं बलमस्ति तथा देहपिण्डे प्राणमनोबुद्धीन्द्रियादिषु जीवात्मदत्तं सामर्थ्यं विद्यते, जीवात्मापि च परमेश्वरादेव तादृशं सामर्थ्यं प्राप्नोति ॥२॥

इस भाष्य को एडिट करें
Top