Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 866
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
7
क꣡ण्वे꣢भिर्धृष्ण꣣वा꣢ धृ꣣ष꣡द्वाजं꣢꣯ दर्षि सह꣣स्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपं मघवन्विचर्षणे म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥८६६॥
स्वर सहित पद पाठक꣡ण्वे꣢꣯भिः । धृ꣣ष्णो । आ꣢ । धृ꣣ष꣢त् । वा꣡ज꣢꣯म् । द꣣र्षि । सहस्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपम् । पि꣣श꣡ङ्ग꣢ । रू꣣पम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गो꣡म꣢꣯न्तम् । ई꣣महे ॥८६६॥
स्वर रहित मन्त्र
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥८६६॥
स्वर रहित पद पाठ
कण्वेभिः । धृष्णो । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् । पिशङ्गरूपम् । पिशङ्ग । रूपम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गोमन्तम् । ईमहे ॥८६६॥
सामवेद - मन्त्र संख्या : 866
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मानमाचार्यं च प्रार्थयते।
पदार्थः -
हे (धृष्णो) अविद्यादोषादिधर्षणशील परमात्मन् आचार्य वा ! (कण्वेभिः) मेधाविभिर्विद्वद्भिः (धृषन्) अविद्यादैन्यादिकं धर्षयन् त्वम् (सहस्रिणम्) सहस्रसंख्याकम् (वाजम्) विद्यादिधनम् (आ दर्षि) प्रयच्छ। [आङ्पूर्वाद विदारणे क्र्यादिः। ततो लोटि सिपि ‘बहुलं छन्दसि’ अ० २।४।७३ इति विकरणस्य लुक्।] हे (मघवन्) ऐश्वर्यशालिन् (विचर्षणे२) सर्वद्रष्टः परमात्मन् शास्त्रद्रष्टः आचार्य वा ! (पिशङ्गरूपम्) पिङ्गलवर्णं तेजोमयं वा, (गोमन्तम्) उत्तमवाग्धेनुपृथिव्यादियुक्तं च (वाजम्) सुवर्णाख्यं ब्रह्मचर्याख्यं वा धनम्, वयम् (मक्षु) सद्य एव (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥३॥
भावार्थः - परमात्मा गुरुश्च सुयोग्यानुपासकान् शिष्यांश्च प्रति सर्वं सुवर्णमणिमुक्ताधेन्वादिकं विद्याब्रह्मचर्यसद्वृत्तादिकं च विपुलमैश्वर्यं प्रापयतः ॥३॥
टिप्पणीः -
१. ऋ० ८।३३।३, अथ० २०।५२।३, ५७।१६। २. विचर्षणे विविधाश्चर्षणयः पुरुषा यस्य स विचर्षणिः अथवा विश्वस्य द्रष्टा—इति वि०।