Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 867
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
त꣣र꣢णि꣣रि꣡त्सि꣢षासति꣣ वा꣢जं꣣ पु꣡र꣢न्ध्या यु꣣जा꣢ । आ꣢ व꣣ इ꣡न्द्रं꣢ पुरुहू꣣तं꣡ न꣢मे गि꣣रा꣢ ने꣣मिं꣡ तष्टे꣢꣯व सु꣣द्रु꣡व꣢म् ॥८६७॥
स्वर सहित पद पाठत꣣र꣡णिः꣢ । इत् । सि꣣षासति । वा꣡ज꣢꣯म् । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । युजा꣢ । आ । वः꣣ । इ꣡न्द्र꣢꣯म् । पु꣣रुहू꣢तम् । पु꣣रु । हू꣢तम् । न꣣मे । गिरा꣢ । ने꣣मि꣢म् । त꣡ष्टा꣢꣯ । इ꣣व । सुद्रु꣡व꣢꣯म् । सु꣣ । द्रु꣡व꣢꣯म् ॥८६७॥
स्वर रहित मन्त्र
तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥८६७॥
स्वर रहित पद पाठ
तरणिः । इत् । सिषासति । वाजम् । पुरन्ध्या । पुरम् । ध्या । युजा । आ । वः । इन्द्रम् । पुरुहूतम् । पुरु । हूतम् । नमे । गिरा । नेमिम् । तष्टा । इव । सुद्रुवम् । सु । द्रुवम् ॥८६७॥
सामवेद - मन्त्र संख्या : 867
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २३८ क्रमाङ्के परमेश्वरनृपत्योर्विषये व्याख्यातपूर्वा। अत्र धनदः प्रशस्यते।
पदार्थः -
(तरणिः इत्) आपद्गतान् दुःखेभ्यः तारयितुकाम एव जनः (युजा) सहायभूतया (पुरन्ध्या) बहुधारिकया सहानुभूतिपूर्णया धिया (वाजम्) धनम् (सिषासति) अन्येभ्यो दातुमिच्छति। [सनितुं दातुमिच्छतीति सिषासति। षणु दाने सन्नन्तं रूपम्।] अतोऽहम् (पुरुहूतम्) बहुभिराहूतम् (वः) युष्माकम् (इन्द्रम्) धनिकं जनम् (गिरा) वाचा (आनमे) आनमये, निर्धनेभ्यो धनं दातुम् सुप्रवर्तये, (तष्टा इव) शिल्पकारो यथा (नेमिम्) रथचक्रवलयम् (सुद्रुवम्) सुप्रवर्तनयोग्यां करोति तद्वत्। [सुष्ठु द्रवतीति सुद्रुः तां सुद्रुवम्] ॥१॥२ अत्रोपमालङ्कारः ॥१॥
भावार्थः - मनुष्यैरीश्वरोपासनया सह धनादिदानेन दीनानां साहाय्यमपि विधेयम् ॥१॥
टिप्पणीः -
१. ऋ० ७।३२।२०, ‘सुद्रुवम्’ इत्यत्र ‘सुद्र्व॑म्’ इति पाठः। साम० २३८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजाजनाः परस्परं कथं वर्तेरन्निति विषये व्याख्यातवान्।