Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 874
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
स꣣ह꣡स्र꣢धारः पवते समु꣣द्रो꣡ वा꣢चमीङ्ख꣣यः꣢ । सो꣢म꣣स्प꣡ती꣢ रयी꣣णा꣡ꣳ सखेन्द्र꣢꣯स्य दि꣣वे꣡दि꣢वे ॥८७४॥
स्वर सहित पद पाठस꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । पवते । समुद्रः꣢ । स꣣म् । उद्रः꣢ । वा꣣चमीङ्खयः꣢ । वा꣣चम् । ईङ्खयः꣢ । सो꣡मः꣢꣯ । प꣡तिः꣢꣯ । र꣣यीणा꣢म् । स꣡खा꣢꣯ । स । खा꣣ । इ꣡न्द्र꣢꣯स्य । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥८७४॥
स्वर रहित मन्त्र
सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमस्पती रयीणाꣳ सखेन्द्रस्य दिवेदिवे ॥८७४॥
स्वर रहित पद पाठ
सहस्रधारः । सहस्र । धारः । पवते । समुद्रः । सम् । उद्रः । वाचमीङ्खयः । वाचम् । ईङ्खयः । सोमः । पतिः । रयीणाम् । सखा । स । खा । इन्द्रस्य । दिवेदिवे । दिवे । दिवे ॥८७४॥
सामवेद - मन्त्र संख्या : 874
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मविषय आचार्यविषयश्चोच्यते।
पदार्थः -
(समुद्रः) आनन्दस्य ज्ञानस्य वा पारावारः, (वाचमीङ्खयः) वाचः प्रेरयिता। [ईखि गतौ, ण्यन्तः, वाचम् ईङ्खयति प्रेरयति सः।], (रयीणां पतिः) सद्गुणकर्मस्वभावरूपाणां धनानामधीश्वरः, (इन्द्रस्य सखा) जीवात्मनः सुहृत् (सोमः) परमात्मा आचार्यो वा (दिवे दिवे) प्रतिदिनम् (सहस्रधारः) सहस्रधाराभिः उद्वेल्लितः सन् (पवते) उपासकान् शिष्यान् वा प्रति आनन्दरसं ज्ञानरसं वा प्रवाहयति ॥३॥
भावार्थः - परमेश्वरः सदुपासकान् प्राप्य तान् प्रति मधुरमानन्दरसम्, आचार्यश्च सच्छिष्यान् प्राप्य तान् प्रति मधुरं ज्ञानरसं प्रवाहयति ॥३॥
टिप्पणीः -
१. ऋ० ९।१०१।६, अथ० २०।१३७।६, उभयत्र ‘सोमः॒ पती॑’ इति पाठः।