Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 880
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥८८०॥
स्वर सहित पद पाठत꣢म् । ते꣡ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣢ । लोककुत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥८८०॥
स्वर रहित मन्त्र
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥८८०॥
स्वर रहित पद पाठ
तम् । ते । मदम् । गृणीमसि । वृषणम् । पृक्षु । सासहिम् । उ । लोककुत्नुम् । लोक । कृत्नुम् । अद्रिवः । अ । द्रिवः । हरिश्रियम् । हरि । श्रियम् ॥८८०॥
सामवेद - मन्त्र संख्या : 880
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३८३ क्रमाङ्के परमेश्वरगुणकर्मविषये व्याख्याता। अत्र परमेश्वराचार्यनृपतीनां विषयो वर्ण्यते।
पदार्थः -
हे (अद्रिवः) अविदारणीय, स्वयं च दोषाणां शत्रूणां वा विदारक परमात्मन् आचार्य राजन् वा ! (ते) तव (तम्) प्रसिद्धम् (मदम्) आनन्दप्रदं ज्ञानं बलं वा, वयम् (गृणीमसि) स्तुमः। कीदृशं ज्ञानं बलं वा ? (वृषणम्) सुखादीनां वर्षकम्, (पृक्षु) देवासुरसंग्रामेषु (सासहिम्) अतिशयेन असुराणाम् अभिभवितारम्, (लोककृत्नुम्) यशःकरम् (उ) अपि च (हरिश्रियम्) मनोहारिशोभम् ॥१॥
भावार्थः - परमात्मन इव आचार्यस्य नृपतेश्चापि ज्ञानं बलं चातिविशालं, प्रजाभ्यः शिष्येभ्यश्च सुखकरं, विपद्विदारकं, कीर्तिकरमुज्ज्वलं च भवेत् ॥१॥
टिप्पणीः -
१. ऋ० ८।१५।४, अथ० २०।६१।१, उभयत्र ‘पृक्षु’ इत्यत्र ‘पृ॒त्सु’ इति पाठः। साम० ३८३।