Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 889
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣡व꣢मानो अजीजनद्दि꣣व꣢श्चि꣣त्रं꣡ न त꣢꣯न्य꣣तु꣢म् । ज्यो꣡ति꣢र्वैश्वान꣣रं꣢ बृ꣣ह꣢त् ॥८८९॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानः । अ꣢जीजनत् । दिवः꣢ । चि꣣त्र꣢म् । न । त꣣न्य꣢तुम् । ज्यो꣡तिः꣢꣯ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । बृ꣡ह꣢त् ॥८८९॥


स्वर रहित मन्त्र

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥८८९॥


स्वर रहित पद पाठ

पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् । ज्योतिः । वैश्वानरम् । वैश्व । नरम् । बृहत् ॥८८९॥

सामवेद - मन्त्र संख्या : 889
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(पवमानः) चरित्रस्य शोधकः परमात्माऽऽचार्यो वा (दिवः) आकाशस्य (चित्रम्) अद्भुतम् (तन्यतुम् न) विद्युतमिव (वैश्वानरम्) सर्वनेतृत्वकारि सर्वहितकरं वा (बृहत्) महत् (ज्योतिः) विज्ञानप्रकाशम्, ज्योतिष्मतीं प्रज्ञां वा (अजीजनत्) उत्पादितवानस्ति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - परमात्मनो योगप्रशिक्षकस्याचार्यस्य च कृपया जनानामन्तःकरणेषु तमोवृत्तेरुच्छेदो दिव्यस्य ज्योतिषो विज्ञानप्रकाशस्य ज्योतिष्मत्याः प्रज्ञायाश्चोदयः सञ्जायते ॥१॥

इस भाष्य को एडिट करें
Top