Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 890
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
प꣡व꣢मान꣣ र꣢स꣣स्त꣢व꣣ म꣡दो꣢ राजन्नदुच्छु꣣नः꣢ । वि꣢꣫ वार꣣म꣡व्य꣢मर्षति ॥८९०॥
स्वर सहित पद पाठप꣡वमा꣢꣯न । र꣡सः꣢꣯ । त꣡व꣢꣯ । म꣡दः꣢꣯ । रा꣣जन् । अदुच्छुनः꣢ । अ꣣ । दुच्छुनः꣢ । वि । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । अ꣣र्षति ॥८९०॥
स्वर रहित मन्त्र
पवमान रसस्तव मदो राजन्नदुच्छुनः । वि वारमव्यमर्षति ॥८९०॥
स्वर रहित पद पाठ
पवमान । रसः । तव । मदः । राजन् । अदुच्छुनः । अ । दुच्छुनः । वि । वारम् । अव्यम् । अर्षति ॥८९०॥
सामवेद - मन्त्र संख्या : 890
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनः परमात्माचार्ययोर्विषयमाह।
पदार्थः -
हे (पवमान) पवित्रताप्रद (राजन्) तेजस्विन् परमात्मन् आचार्य वा ! यः (तव) त्वदीयः (अदुच्छुनः) न विद्यते दुच्छुना दुर्गतिः दुखं वा येन तादृशः (मदः) उत्साहकरः (रसः) आनन्दरसो ज्ञानरसो वा विद्यते, सः (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) दोषनिवारकम् आत्मानम् (वि अर्षति) विविधं प्राप्नोति ॥२॥
भावार्थः - परमेश्वरादाचार्याच्च प्रस्रुतमानन्दरसं विज्ञानरसं च प्राप्य मानवानामात्मा कृतार्थो जायते ॥२॥
टिप्पणीः -
१. ऋ० ९।६१।१७, ‘पव॑मानस्य ते॒ रसो॒’ इति प्रथमः पादः।