Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 896
ऋषिः - मेध्यातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣡व꣢स्व विश्वचर्षण꣣ आ꣢ म꣣ही꣡ रोद꣢꣯सी पृण । उ꣣षाः꣢꣫ सूर्यो꣣ न꣢ र꣣श्मि꣡भिः꣢ ॥८९६॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । वि꣣श्चर्षणे । विश्व । चर्षणे । आ꣢ । म꣣ही꣡इति꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । पृ꣣ण । उषाः꣢ । सू꣡र्यः꣢꣯ । न । र꣣श्मि꣡भिः꣢ ॥८९६॥


स्वर रहित मन्त्र

पवस्व विश्वचर्षण आ मही रोदसी पृण । उषाः सूर्यो न रश्मिभिः ॥८९६॥


स्वर रहित पद पाठ

पवस्व । विश्चर्षणे । विश्व । चर्षणे । आ । महीइति । रोदसीइति । पृण । उषाः । सूर्यः । न । रश्मिभिः ॥८९६॥

सामवेद - मन्त्र संख्या : 896
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment

पदार्थः -
हे (विश्वचर्षणे) विश्वब्रह्माण्डस्य द्रष्टः परमात्मन्, सर्वासां विद्यानां द्रष्टः आचार्य वा ! त्वम् (पवस्व) अन्तःप्रकाशं ज्ञानरसं वा प्रवाहय, तेन (मही रोदसी) महती आत्ममनसी (आ पृण) परिपूरय, (न) यथा (उषाः) प्रभातकान्तिः (सूर्यः) आदित्यश्च (रश्मिभिः) किरणैः (मही रोदसी) महत्यौ द्यावापृथिव्यौ आपृणाति ॥५॥ अत्र श्लिष्टोपमालङ्कारः ॥५॥

भावार्थः - यथोषसः सूर्यस्य च प्रकाशेन द्यावापृथिव्यौ प्रयूर्येते तथैव परमात्मनाचार्येण च प्रदत्तेन दिव्येनान्तर्ज्योतिषा ज्ञानज्योतिषा च मनुष्यस्यात्मा मनश्च परिपूर्येते ॥५॥

इस भाष्य को एडिट करें
Top