Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 897
ऋषिः - मेध्यातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
प꣡रि꣢ णः शर्म꣣य꣢न्त्या꣣ धा꣡र꣢या सोम वि꣣श्व꣡तः꣢ । स꣡रा꣢ र꣣से꣡व꣢ वि꣣ष्ट꣡प꣢म् ॥८९७॥
स्वर सहित पद पाठप꣡रि꣢꣯ । नः꣣ । शर्मय꣡न्त्या꣢ । धा꣡र꣢꣯या । सो꣣म । विश्व꣡तः꣢ । स꣡र꣢꣯ । र꣣सा꣢ । इ꣣व । विष्ट꣡प꣢म् ॥८९७॥
स्वर रहित मन्त्र
परि णः शर्मयन्त्या धारया सोम विश्वतः । सरा रसेव विष्टपम् ॥८९७॥
स्वर रहित पद पाठ
परि । नः । शर्मयन्त्या । धारया । सोम । विश्वतः । सर । रसा । इव । विष्टपम् ॥८९७॥
सामवेद - मन्त्र संख्या : 897
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment
विषयः - अथ परमात्माऽऽचार्यश्च प्रार्थ्यते।
पदार्थः -
हे (सोम) रसागार परमात्मन् आचार्य वा ! त्वम् (शर्मयन्त्या) सुखयन्त्या (धारया) अध्यात्मप्रकाशधारया ज्ञानधारया वा सह (विश्वतः) सर्वतः (नः) अस्मान् (परि सर) परिप्राप्नुहि। [सृ गतौ। संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इत्यनेन दीर्घः।] (रसा इव) रसमयी वृष्टिः यथा (विष्टपम्) भूलोकं प्राप्नोति तथा ॥६॥ अत्रोपमालङ्कारः। ‘सरा, रसे’ इत्यत्र वृत्त्यनुप्रासः ॥६॥
भावार्थः - यथा पर्जन्यात् पर्वतेषु जाता वृष्टिर्नदीरूपेण भूप्रदेशान् सिञ्चन्ती समुद्रं प्राप्नोति तथैव परमात्मन आचार्याद् वा निःसृतान्तःप्रकाशधारा ब्रह्मानन्दधारा ज्ञानधारा वा मनोबुद्ध्यादीन् सिञ्चन्ती जीवात्मानं प्राप्नोति ॥६॥ अस्मिन् खण्डे परमेश्वरोपासकयोः परमेश्वरतद्रचितसूर्ययोः, परमात्माचार्ययोश्च विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥
टिप्पणीः -
१. ऋ० ९।४१।६।