Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 898
ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

आ꣣शु꣡र꣢र्ष बृहन्मते꣣ प꣡रि꣢ प्रि꣣ये꣢ण꣣ धा꣡म्ना꣢ । य꣡त्र꣢ दे꣣वा꣢꣫ इति꣣ ब्रु꣡व꣢न् ॥८९८॥

स्वर सहित पद पाठ

आ꣣शुः꣡ । अ꣣र्ष । बृहन्मते । बृहत् । मते । प꣡रि꣢꣯ । प्रि꣣ये꣡ण꣢ । धा꣡म्ना꣢꣯ । य꣡त्र꣢꣯ । दे꣡वाः꣢ । इ꣡ति꣢꣯ । ब्रु꣡व꣢꣯न् ॥८९८॥


स्वर रहित मन्त्र

आशुरर्ष बृहन्मते परि प्रियेण धाम्ना । यत्र देवा इति ब्रुवन् ॥८९८॥


स्वर रहित पद पाठ

आशुः । अर्ष । बृहन्मते । बृहत् । मते । परि । प्रियेण । धाम्ना । यत्र । देवाः । इति । ब्रुवन् ॥८९८॥

सामवेद - मन्त्र संख्या : 898
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (बृहन्मते) महामते, महामतिप्रदायक परमेश ! [बृहती मतिः यस्य यस्माद् वा स बृहन्मतिः।] (यत्र देवाः) यत्र दिव्यगुणाः सन्ति तत्र मम निवासः (इति ब्रुवन्) इति कथयन् त्वम् (प्रियेण धाम्ना) स्वकीयेन मधुरेण तेजसा सह (आशुः) शीघ्रः सन् (परि अर्ष) अस्माकं जीवनं परितो व्याप्नुहि ॥१॥

भावार्थः - परमात्मनः कृपां प्राप्तुं स्वात्मनि दिव्यगुणा धारणीयाः ॥१॥

इस भाष्य को एडिट करें
Top