Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 907
ऋषिः - सुतंभर आत्रेयः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
5
ज꣡न꣢स्य गो꣣पा꣡ अ꣢जनिष्ट꣣ जा꣡गृ꣢विर꣣ग्निः꣢ सु꣣द꣡क्षः꣢ सुवि꣣ता꣢य꣣ न꣡व्य꣢से । घृ꣣त꣡प्र꣢तीको बृह꣣ता꣡ दि꣢वि꣣स्पृ꣡शा꣢ द्यु꣣म꣡द्वि भा꣢꣯ति भर꣣ते꣢भ्यः꣣ शु꣡चिः꣢ ॥९०७॥
स्वर सहित पद पाठज꣡न꣢꣯स्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । अ꣣जनिष्ट । जा꣡गृ꣢꣯विः । अ꣣ग्निः꣢ । सु꣣द꣡क्षः꣢ । सु꣣ । द꣡क्षः꣢꣯ । सु꣣वि꣡ता꣢य । न꣡व्य꣢꣯से । घृ꣣त꣡प्र꣢तीकः । घृ꣣त꣢ । प्र꣣तीकः । बृहता꣢ । दि꣣विस्पृ꣡शा꣢ । दि꣣वि । स्पृ꣡शा꣢꣯ । द्यु꣣म꣢त् । वि । भा꣣ति । भरते꣡भ्यः꣢ । शु꣡चिः꣢꣯ ॥९०७॥
स्वर रहित मन्त्र
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥९०७॥
स्वर रहित पद पाठ
जनस्य । गोपाः । गो । पाः । अजनिष्ट । जागृविः । अग्निः । सुदक्षः । सु । दक्षः । सुविताय । नव्यसे । घृतप्रतीकः । घृत । प्रतीकः । बृहता । दिविस्पृशा । दिवि । स्पृशा । द्युमत् । वि । भाति । भरतेभ्यः । शुचिः ॥९०७॥
सामवेद - मन्त्र संख्या : 907
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमेश्वरस्य स्वरूपमाह।
पदार्थः -
(जागृविः) जागरूकः परमेश्वरः (जनस्य) सर्वेषां जनानाम् (गोपाः) रक्षकः (अजनिष्ट) जातोऽस्ति।(सुदक्षः) सुबलः सः (अग्निः) अग्रणीः परमेश्वरः (नव्यसे)अतिशयेन नवीनाय (सुविताय) भद्रप्राप्तये सहायको जायते। (घृतप्रतीकः) तेजःस्वरूपः। [घृतं तेजोमयं प्रतीकं रूपं यस्य सः। घृ क्षरणदीप्त्योः।] (शुचिः) पवित्रः सः (भरतेभ्यः२) धारणाध्यानसमाधिस्थेभ्यो जनेभ्यः। [डुभृञ् धारणपोषणयोः इत्यस्मात् ‘भृमृदृशि’ उ० ३।११० इत्यनेन अतच् प्रत्ययः।] (दिविस्पृशा) आत्मस्पर्शिना (बृहता) महता तेजसा (द्युमत्) भासमानः सन् (विभाति) शोभते ॥१॥३
भावार्थः - तेजःस्वरूपः परमेश्वर उपासकानां रक्षकः सन् तान् दिव्यतेजःप्रदानेन कृतार्थयति ॥१॥
टिप्पणीः -
१. ऋ० ५।११।१, यजु० १५।२७। २. भरत इति ऋत्विङ्नाम। निघं० ३।१८। (भरतेभ्यः) धारणपोषणकृद्भ्यो मनुष्येभ्यः इति ऋ० ५।११।१ भाष्ये द०। ३. दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च मन्त्रोऽयं क्रमेण पावकपक्षे विद्युत्पक्षे च व्याख्यातः।