Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 908
ऋषिः - सुतंभर आत्रेयः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
4
त्वा꣡म꣢ग्ने꣣ अ꣡ङ्गि꣢रसो꣣ गु꣡हा꣢ हि꣣त꣡मन्व꣢꣯विन्दञ्छिश्रिया꣣णं꣡ वने꣢꣯वने । स꣡ जा꣢यसे म꣣थ्य꣡मा꣢नः꣣ स꣡हो꣢ म꣣ह꣡त्त्वामा꣢꣯हुः꣣ स꣡ह꣢सस्पु꣣त्र꣡म꣢ङ्गिरः ॥९०८॥
स्वर सहित पद पाठत्वाम् । अ꣣ग्ने । अ꣡ङ्गि꣢꣯रसः । गु꣡हा꣢꣯ । हि꣣त꣢म् । अ꣡नु꣢꣯ । अ꣣विन्दन् । शिश्रियाण꣢म् । व꣡ने꣢꣯वने । व꣡ने꣢꣯ । व꣣ने । सः꣢ । जा꣣यसे । मध्य꣡मा꣢नः । स꣡हः꣢꣯ । म꣣ह꣢त् । त्वाम् । आ꣣हुः । स꣡ह꣢꣯सः । पु꣣त्र꣢म् । पु꣣त् । त्र꣢म् । अ꣢ङ्गिरः ॥९०८॥
स्वर रहित मन्त्र
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥९०८॥
स्वर रहित पद पाठ
त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेवने । वने । वने । सः । जायसे । मध्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । पुत् । त्रम् । अङ्गिरः ॥९०८॥
सामवेद - मन्त्र संख्या : 908
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मप्राप्तिविषयमाह।
पदार्थः -
हे (अग्ने) अग्रणीः परमेश्वर ! (गुहा हितम्) गुहायां निहितम्, गुह्यम्, (वने वने) किरणे किरणे। [वनमिति रश्मिनाम। निघं० १।५।] जीवे जीवे वा२ (शिश्रियाणम्)श्रयन्तम्। [श्रिञ् सेवायाम्, शानच्।] (त्वाम् अङ्गिरसः) तपस्विनः प्राणायामाभ्यासिनो जनाः (अन्वविन्दन्) प्राप्नुवन्ति। (सः) असौ त्वम् (मथ्यमानः) ध्यायमानः (महत् सहः) उपासकस्य महद् बलम् (जायसे) भवसि। हे (अङ्गिरः) प्राणवत् प्रिय ! (त्वाम्) भवन्तम् (सहसः) बलस्य (पुत्रम्) पुत्तलम् (आहुः) कथयन्ति ॥२॥३
भावार्थः - परमेश्वरः पदार्थे पदार्थे विद्यमानोऽपि चर्मचक्षुषाऽदृश्यत्वाद् गुह्यो वर्तते। तपसा ध्यानेनैव च स लभ्योऽस्ति। ध्यानिनो जनास्तस्य महद् बलं तेजश्च साक्षात्कुर्वन्ति ॥२॥
टिप्पणीः -
१. ऋ० ५।११।६, य० १५।२८। २. वने वने जङ्गले जङ्गलेऽग्नाविव जीवे जीवे इति ऋ० ५।११।६ भाष्ये द०। ३. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये परमात्मपक्षे यजुर्भाष्ये च बाह्याभ्यन्तराग्निपक्षे व्याख्यातः।