Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 933
ऋषिः - पुरुहन्मा आङ्गिरसः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥९३३॥
स्वर सहित पद पाठयः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥९३३॥
स्वर रहित मन्त्र
यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥९३३॥
स्वर रहित पद पाठ
यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिगुः । अध्रि । गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठम् । यः । वृत्रहा । वृत्र । हा । गृणे ॥९३३॥
सामवेद - मन्त्र संख्या : 933
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २७३ क्रमाङ्के परमात्मविषये राजविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।
पदार्थः -
(यः) मम आत्मा (चर्षणीनाम्) मनुष्याणाम् (राजा) सम्राट् अस्ति, किञ्च (अध्रिगुः) अधृतगमनः, अवारितक्रियः यः (रथेभिः) देहरथैः (याता) गन्ता भवति, अपि च यः (विश्वासाम्) सर्वासाम् (पृतनानाम्) आन्तरिकीणां बाह्यानां च रिपुसेनानाम् (तरुता) तर्ता जायते, (यः) यश्च (वृत्रहा) पापविघ्नादीनां हन्ता वर्तते, तम् (ज्येष्ठम्) श्रेष्ठम् अहम् (गृणे) स्तौमि, गुणैर्वर्णयामि ॥१॥
भावार्थः - मनुष्यस्यात्मनि महती शक्तिर्निहितास्ति। उद्बोधितः स महान्ति कर्माणि कर्तुं समर्थो जायते ॥१॥
टिप्पणीः -
१. ऋ० ८।७०।१, अथ० २०।९२।१६, १०५।४, सर्वत्र ‘ज्येष्ठं॑’ इत्यत्र ‘ज्येष्ठो॒’ इति पाठः। साम० २७३।