Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 943
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

सो꣡मः꣢ पवते जनि꣣ता꣡ म꣢ती꣣नां꣡ ज꣢नि꣣ता꣢ दि꣣वो꣡ ज꣢नि꣣ता꣡ पृ꣢थि꣣व्याः꣢ । ज꣣निता꣡ग्नेर्ज꣢꣯नि꣣ता꣡ सूर्य꣢꣯स्य जनि꣣ते꣡न्द्र꣢स्य जनि꣣तो꣡त विष्णोः꣢꣯ ॥९४३॥

स्वर सहित पद पाठ

सो꣡मः꣢꣯ । प꣣वते । जनिता꣢ । म꣣तीना꣢म् । ज꣣निता꣢ । दि꣣वः꣢ । ज꣣निता꣢ । पृ꣣थिव्याः꣢ । ज꣣निता꣢ । अ꣣ग्नेः꣢ । ज꣣निता꣢ । सू꣡र्य꣢꣯स्य । ज꣣निता꣢ । इ꣡न्द्र꣢꣯स्य । ज꣣नि꣢ता । उ꣣त꣢ । वि꣡ष्णोः꣢꣯ ॥९४३॥


स्वर रहित मन्त्र

सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥९४३॥


स्वर रहित पद पाठ

सोमः । पवते । जनिता । मतीनाम् । जनिता । दिवः । जनिता । पृथिव्याः । जनिता । अग्नेः । जनिता । सूर्यस्य । जनिता । इन्द्रस्य । जनिता । उत । विष्णोः ॥९४३॥

सामवेद - मन्त्र संख्या : 943
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
(सोमः) सकलजगदुत्पादकः परमेश्वरः (पवते) सर्वत्र गच्छति, सर्वान्तर्यामी अस्ति। [पवते गतिकर्मा निघं० २।१४] यः (मतीनाम्) बुद्धीनां (जनिता) जनयिता, (दिवः) द्युलोकस्य (जनिता) जनयिता, (पृथिव्याः) पृथिवीलोकस्य (जनिता) जनयिता, (अग्नेः) वह्नेः(जनिता) जनयिता, (सूर्यस्य) आदित्यस्य (जनिता)जनयिता, (इन्द्रस्य) विद्युतः (जनिता) जनयिता, (उत) अपि च (विष्णोः) व्यापकस्य सूत्रात्मनः प्राणस्य (जनिता) जनयिता वर्तते ॥१॥

भावार्थः - परमात्मनैवेमानि लोकलोकान्तराणि तत्रस्थाः सर्वेऽद्भुताः पदार्थाश्च रचिताः सन्ति, यदुत्पद्यते तस्य कर्त्ताऽवश्यमस्तीति नियमाद्, अस्मादृशां च जगत्कर्तृत्वसामर्थ्याभावात् ॥१॥

इस भाष्य को एडिट करें
Top