Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 947
ऋषिः - प्रयोगो भार्गवः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
अ꣣यं꣡ यथा꣢꣯ न आ꣣भु꣢व꣣त्त्व꣡ष्टा꣢ रू꣣पे꣢व꣣ त꣡क्ष्या꣢ । अ꣣स्य꣢꣫ क्रत्वा꣣ य꣡श꣢स्वतः ॥९४७॥
स्वर सहित पद पाठअ꣣य꣢म् । य꣡था꣢꣯ । नः꣣ । आ꣣भु꣡व꣢त् । आ꣣ । भु꣡व꣢꣯त् । त्व꣡ष्टा꣢꣯ । रू꣣पा꣢ । इ꣣व । त꣡क्ष्या꣢꣯ । अ꣣स्य꣢ । क्र꣡त्वा꣢꣯ । य꣡श꣢꣯स्वतः ॥९४७॥
स्वर रहित मन्त्र
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । अस्य क्रत्वा यशस्वतः ॥९४७॥
स्वर रहित पद पाठ
अयम् । यथा । नः । आभुवत् । आ । भुवत् । त्वष्टा । रूपा । इव । तक्ष्या । अस्य । क्रत्वा । यशस्वतः ॥९४७॥
सामवेद - मन्त्र संख्या : 947
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 5; मन्त्र » 2
Acknowledgment
विषयः - अथ कुतो वयं परमेश्वरस्याभिमुखाः स्यामेत्याह।
पदार्थः -
वयमग्निं परमेश्वरमभिमुखाः भवेम (यथा) येन (अयम्) एषः परमेश्वरः (नः) अस्मान्, अस्माकं जीवनानीत्यर्थः (आभुवत्) व्याप्नुयात्। कथमिव ? (त्वष्टा) वर्धकिः (तक्ष्या रूपा इव) तक्षणीयानि रूपाणि यथा व्याप्नोति तथा। [शेश्छन्दसि बहुलम्। अ० ६।१।७० इति शेर्लोपः।] (यशस्वतः) कीर्तिमतः (अस्य) अग्नेः परमेश्वरस्य (क्रत्वा) क्रतुना प्रज्ञया कर्मणा वा, वयमनुगृहीताः स्याम ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - जगदीश्वरो यद्यस्माकं जीवनानि व्याप्नोति तर्हि सदैव सदसद्विवेकिनः पुण्यकर्माणः सन्तो वयं कीर्तिभाजो भवामः ॥२॥
टिप्पणीः -
१. ऋ० ८।१०२।८।