Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 948
ऋषिः - प्रयोगो भार्गवः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

अ꣣यं꣡ विश्वा꣢꣯ अ꣣भि꣢꣫ श्रियो꣣ऽग्नि꣢र्दे꣣वे꣡षु꣢ पत्यते । आ꣢꣫ वाजै꣣रु꣡प꣢ नो गमत् ॥९४८॥

स्वर सहित पद पाठ

अ꣣य꣢म् । वि꣡श्वाः꣢꣯ । अ꣣भि꣢ । श्रि꣡यः꣢꣯ । अ꣣ग्निः꣢ । दे꣣वे꣡षु꣢ । प꣣त्यते । आ꣢ । वा꣡जैः꣢꣯ । उ꣡प꣢꣯ । नः । गमत् ॥९४८॥


स्वर रहित मन्त्र

अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । आ वाजैरुप नो गमत् ॥९४८॥


स्वर रहित पद पाठ

अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते । आ । वाजैः । उप । नः । गमत् ॥९४८॥

सामवेद - मन्त्र संख्या : 948
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थः -
(अयम्) एषः (अग्निः) अग्रनायकः परमेश्वरः (देवेषु) उपासकेषु सदाचारिषु विद्वत्सु (विश्वाः श्रियः) सर्वाः आध्यात्मिकीः बाह्याश्च सम्पदः (अभि पत्यते) अभि प्रापयति। [पत्लृ गतौ भ्वादिः, विकरणव्यत्ययः, लुप्तणिच्कः प्रयोगः।] सः (वाजैः) दिव्यैः ऐश्वर्यैः बलैश्च सह (नः) अस्मान् (उप गमत्) उपगच्छन्तु ॥३॥

भावार्थः - परमेश्वरोपासकः सर्वविधानि भौतिकान्याध्यात्मिकानि बलान्यैश्वर्याणि च स्वपुरुषार्थेन प्राप्तुमर्हति ॥३॥

इस भाष्य को एडिट करें
Top