Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 999
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
य꣡त्सो꣢म चि꣣त्र꣢मु꣣꣬क्थ्यं꣢꣯ दि꣣व्यं꣡ पार्थि꣢꣯वं꣣ व꣡सु꣢ । त꣡न्नः꣢ पुना꣣न꣡ आ भ꣢꣯र ॥९९९॥
स्वर सहित पद पाठय꣢त् । सो꣣म । चित्र꣢म् । उ꣣क्थ्यम्꣢ । दि꣣व्य꣢म् । पा꣡र्थि꣢꣯वम् । व꣡सु꣢꣯ । तत् । नः꣣ । पुनानः꣢ । आ । भ꣣र ॥९९९॥
स्वर रहित मन्त्र
यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तन्नः पुनान आ भर ॥९९९॥
स्वर रहित पद पाठ
यत् । सोम । चित्रम् । उक्थ्यम् । दिव्यम् । पार्थिवम् । वसु । तत् । नः । पुनानः । आ । भर ॥९९९॥
सामवेद - मन्त्र संख्या : 999
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मानमाचार्यं च प्रार्थयते।
पदार्थः -
हे (सोम) दिव्यानन्दविद्यादिपरमैश्वर्ययुक्त जगदीश्वर आचार्य वा ! (यत् चित्रम्) अद्भुतम्, (उक्थ्यम्) प्रशंसनीयम्, (दिव्यम्) योगसिद्धिमोक्षादिकम् अलौकिकम् (पार्थिवम्) भौतिकं च सुवर्णहीरकमुक्ताचक्रवर्तिराज्यादिकम् (वसु) धनं विद्यते (तत्) धनम्, त्वम् (नः) अस्मान् (पुनानः) पवित्रयन् (आ भर) आहर ॥१॥
भावार्थः - परमात्मनः कृपां प्राप्ता आचार्यद्वारा च विविधास्वाध्यात्मिकीषु भौतिकीषु च विद्यासु पारं गमिता वयं सर्वं दिव्यं पार्थिवं च धनमर्जयितुं शक्नुमः ॥१॥
टिप्पणीः -
१. ऋ० ९।१९।१।