ऋग्वेद - मण्डल 1/ सूक्त 123/ मन्त्र 12
ऋषिः - दीर्घतमसः पुत्रः कक्षीवान्
देवता - उषाः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒: सूर्य॑स्य। परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षास॑: ॥
स्वर सहित पद पाठअश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य । परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥
स्वर रहित मन्त्र
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभि: सूर्यस्य। परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषास: ॥
स्वर रहित पद पाठअश्वऽवतीः। गोऽमतीः। विश्वऽवाराः। यतमानाः। रश्मिऽभिः। सूर्यस्य। परा। च। यन्ति। पुनः। आ। च। यन्ति। भद्रा। नाम। वहमानाः। उषसः ॥ १.१२३.१२
ऋग्वेद - मण्डल » 1; सूक्त » 123; मन्त्र » 12
अष्टक » 2; अध्याय » 1; वर्ग » 6; मन्त्र » 2
अष्टक » 2; अध्याय » 1; वर्ग » 6; मन्त्र » 2
विषयः - पुनस्तमेव विषयमाह ।
अन्वयः - हे स्त्रियो सूर्यस्य रश्मिभिस्सहोत्पन्ना यतमाना अश्वावतीर्गोमतीर्विश्ववारा भद्रा नाम वहमाना उषसः परा यन्ति च पुनरायन्ति च तथा यूयं वर्त्तध्वम् ॥ १२ ॥
पदार्थः -
(अश्वावतीः) प्रशस्ता अश्वा व्याप्तयो विद्यन्ते यासां ताः। अत्र मतौ पूर्वपदस्य दीर्घः। (गोमतीः) बहुपृथिवीकिरणयुक्ताः (विश्ववाराः) याः सर्वं जगद्वृण्वन्ति ताः (यतमानाः) प्रयत्नं कुर्वत्यः (रश्मिभिः) किरणैः सह (सूर्यस्य) सवितृलोकस्य (परा) (च) (यन्ति) गच्छन्ति (पुनः) (आ) (च) (यन्ति) (भद्रा) भद्राणि (नाम) नामानि (वहमानाः) प्राप्नुवत्यः (उषासः) प्रत्यूषसमयाः। अत्रान्येषामपीति दीर्घः ॥ १२ ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा प्रभातवेलाः सूर्यस्य सन्नियोगेन नियताः सन्ति तथा विवाहिताः स्त्रीपुरुषा परस्परं प्रेमास्पदाः स्युः ॥ १२ ॥
इस भाष्य को एडिट करें