Loading...
ऋग्वेद मण्डल - 1 के सूक्त 123 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 123/ मन्त्र 13
    ऋषिः - दीर्घतमसः पुत्रः कक्षीवान् देवता - उषाः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि। उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥

    स्वर सहित पद पाठ

    ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ । उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥


    स्वर रहित मन्त्र

    ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि। उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥

    स्वर रहित पद पाठ

    ऋतस्य। रश्मिम्। अनुऽयच्छमाना। भद्रम्ऽभद्रम्। क्रतुम्। अस्मासु। धेहि। उषः। नः। अद्य। सुऽहवा। वि। उच्छ। अस्मासु। रायः। मघवत्ऽसु। च। स्युरिति स्युः ॥ १.१२३.१३

    ऋग्वेद - मण्डल » 1; सूक्त » 123; मन्त्र » 13
    अष्टक » 2; अध्याय » 1; वर्ग » 6; मन्त्र » 3

    अन्वयः - हे उषर्वत्पत्नि त्वमद्य ऋतस्य रश्मिमुषाइव हृद्यं पतिमनुयच्छमानाऽस्मासु भद्रं भद्रं क्रतुं धेहि। सुहवा सती नोऽस्मान् व्युच्छ यतो मघवत्स्वस्मासु रायश्च स्युः ॥ १३ ॥

    पदार्थः -
    (ऋतस्य) जलस्य (रश्मिम्) किरणम् (अनुयच्छमाना) अनुकूलतया प्राप्ता (भद्रंभद्रम्) कल्याणकल्याणकारकम् (क्रतुम्) प्रज्ञां कर्म वा (अस्मासु) (धेहि) (उषः) उषर्वद्वर्त्तमाने (नः) अस्मान् (अद्य) (सुहवा) सुष्ठु सुखप्रदा (वि) (उच्छ) (अस्मासु) (रायः) श्रियः (मघवत्सु) पूजितेषु धनेषु (च) (स्युः) ॥ १३ ॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सत्यः स्त्रियः स्वस्वपत्यादीन् यथावत् संसेव्य प्रज्ञाधर्मैश्वर्याणि नित्यं वर्द्धयन्ति तथोषसोऽपि वर्न्तते ॥ १३ ॥अत्रोषर्दृष्टान्तेन स्त्रीधर्मवर्णनादेतत्सूक्तार्थस्य पूर्वसूक्तोक्तार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥ १३ ॥इति त्रयोविंशत्युत्तरं शततमं सूक्तं षष्ठो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top