Loading...
ऋग्वेद मण्डल - 1 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 42/ मन्त्र 4
    ऋषिः - कण्वो घौरः देवता - पूषा छन्दः - विराड्गायत्री स्वरः - षड्जः

    त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् । प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥

    स्वर सहित पद पाठ

    त्वम् । तस्य॑ । द्व॒या॒विनः॑ । अ॒घऽशं॑सस्य । कस्य॑ । चि॒त् । प॒दा । अ॒भि । ति॒ष्ठ॒ । तपु॑षिम् ॥


    स्वर रहित मन्त्र

    त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् । पदाभि तिष्ठ तपुषिम् ॥

    स्वर रहित पद पाठ

    त्वम् । तस्य । द्वयाविनः । अघशंसस्य । कस्य । चित् । पदा । अभि । तिष्ठ । तपुषिम्॥

    ऋग्वेद - मण्डल » 1; सूक्त » 42; मन्त्र » 4
    अष्टक » 1; अध्याय » 3; वर्ग » 24; मन्त्र » 4

    अन्वयः - पुनरेतेषां चोराणां का गतिः कार्य्येत्युपदिश्यते।

    पदार्थः -
    हे पूषन्सेनासभाध्यक्ष ! त्वं तस्य द्वयाविनः कस्य चिदघशंसस्य तपुषिं पदाभितिष्ठ पादाक्रांतां कुरु ॥४॥

    भावार्थः - नैव न्यायकारिभिर्मनुष्यैः कस्यापराधिनश्चोरस्य दण्डदानेन विना त्यागः कर्त्तव्यः। नोचेत्प्रजा पीडिता स्यात्तस्मात्प्रजारक्षणार्थं दुष्टकर्मकारिणः पित्राचार्य्यमातृपुत्रमित्रादयोऽपि सदैव यथाऽपराधं ताडनीयाः ॥४॥

    इस भाष्य को एडिट करें
    Top