Loading...
ऋग्वेद मण्डल - 1 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 42/ मन्त्र 5
    ऋषिः - कण्वो घौरः देवता - पूषा छन्दः - गायत्री स्वरः - षड्जः

    आ तत्ते॑ दस्र मन्तुमः॒ पूष॒न्नवो॑ वृणीमहे । येन॑ पि॒तॄनचो॑दयः ॥

    स्वर सहित पद पाठ

    आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒ऽमः॒ । पू॒ष॒न् । अवः॑ । वृ॒णी॒म॒हे॒ । येन॑ । पि॒तॄन् । अचो॑दयः ॥


    स्वर रहित मन्त्र

    आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे । येन पितॄनचोदयः ॥

    स्वर रहित पद पाठ

    आ । तत् । ते । दस्र । मन्तुमः । पूषन् । अवः । वृणीमहे । येन । पितॄन् । अचोदयः॥

    ऋग्वेद - मण्डल » 1; सूक्त » 42; मन्त्र » 5
    अष्टक » 1; अध्याय » 3; वर्ग » 24; मन्त्र » 5

    अन्वयः - पुनः स न्यायाधीशः कीदृशो भवेदित्युपदिश्यते।

    पदार्थः -
    हे दस्र ! मन्तुमः पूषन् विद्वँस्त्वं येन पितॄनचोदयस्तत् ते तवाऽवो रक्षणादिकं वयं वृणीमहे ॥५॥

    भावार्थः - मनुष्या यथा प्रेमप्रीत्या सेवनेन जनकादीनध्यापकादीन् ज्ञानवयोवृद्धांश्च प्रीणयेयुस्तथैव सर्वासां प्रजानां सुखाय दुष्टान् दण्डयित्वा श्रेष्ठान्सुखयेयुः ॥५॥

    इस भाष्य को एडिट करें
    Top