ऋग्वेद - मण्डल 1/ सूक्त 42/ मन्त्र 6
अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम । धना॑नि सु॒षणा॑ कृधि ॥
स्वर सहित पद पाठअधः॑ । नः॒ । वि॒श्व॒ऽसौ॒भ॒ग॒ । हिर॑ण्यवाशीमत्ऽतम । धना॑नि । सु॒ऽसना॑ । कृ॒धि॒ ॥
स्वर रहित मन्त्र
अधा नो विश्वसौभग हिरण्यवाशीमत्तम । धनानि सुषणा कृधि ॥
स्वर रहित पद पाठअधः । नः । विश्वसौभग । हिरण्यवाशीमत्तम । धनानि । सुसना । कृधि॥
ऋग्वेद - मण्डल » 1; सूक्त » 42; मन्त्र » 6
अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 1
अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 1
विषयः - (अध) अधेत्यनन्तरम्। अत्रवर्णव्यत्ययेन थस्य धः निपातस्य च इति दीर्घश्च। (नः) अस्मभ्यम् (विश्वसौभग) विश्वेषां सर्वेषां सुभगानां श्रेष्ठानामैश्वर्य्याणां भावो यस्य तत्संबुद्धौ (हिरण्यवाशीमत्तम) हिरण्येन सत्यप्रकाशेन परमयशसा सह प्रशस्ता वाक् विद्यते यस्य सोतिशयितस्तत्संबुद्धौ। वा शांतिवाङ्ना० निघं० १।११। (धनानि) विद्याधर्मचक्रवर्त्तिराज्यश्रीसिद्धानि (सुषणा) यानि सुखेन सन्यंते तानि सुषणानि। अत्र अविहितलक्षणो मूर्द्धन्यः, सुषामादिषु द्रष्टव्यः। अ०।८।३।९८। इतिमूर्द्धन्यादेशस्तत्सन्नियोगेन णत्वं शेश्छन्दसि बहुलम् इति लोपश्च। (कृधि) कुरु ॥६॥
अन्वयः - पुनः स प्रज्ञासु किं कुर्य्यादित्युपदिश्यते।
पदार्थः -
हे विश्वसौभग ! हिरण्यवाशीमत्तम पृथिव्यादिराज्ययुक्त सभाध्यक्ष विद्वँस्त्वं नोस्मभ्यं सुषणा धनानि कृधि ॥६॥
भावार्थः - ईश्वरस्यानंतसौभगत्वाद्धार्म्मिकस्य सभासेनान्यायाधीशस्य चक्रवर्त्तिसुखैश्वर्ययुक्तत्वादेतौ समाश्रित्य मनुष्यैरसंख्यातानि विद्यासुवर्णादिधनानि प्राप्य बहुसुखभोगः कर्त्तव्यः कारयितव्यश्चेति ॥६॥
इस भाष्य को एडिट करें