ऋग्वेद - मण्डल 1/ सूक्त 42/ मन्त्र 7
अति॑ नः स॒श्चतो॑ नय सु॒गा नः॑ सु॒पथा॑ कृणु । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
स्वर सहित पद पाठअति॑ । नः । स॒श्चतः॑ । न॒य॒ । सु॒ऽगा । नः॒ । सु॒ऽपथा॑ । कृ॒णु॒ । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥
स्वर रहित मन्त्र
अति नः सश्चतो नय सुगा नः सुपथा कृणु । पूषन्निह क्रतुं विदः ॥
स्वर रहित पद पाठअति । नः । सश्चतः । नय । सुगा । नः । सुपथा । कृणु । पूषन् । इह । क्रतुम् । विदः॥
ऋग्वेद - मण्डल » 1; सूक्त » 42; मन्त्र » 7
अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 2
अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 2
विषयः - पुनः स कीदृशानस्मान्सम्पादयेदित्युपदिश्यते।
अन्वयः -
हे पूषन् परमात्मन् सभाध्यक्ष ! वा त्वमिह सश्चतो नोऽस्मान् सुगा सुपथाऽतिनय नोऽस्मान् क्रतुं विदः ॥७॥
पदार्थः -
(अति) अत्यन्तार्थे (नः) अस्मान् (सश्चतः) विज्ञानवतो विद्याधर्मप्राप्तान् (नय) प्रापय (सुगा) सुख गच्छन्ति प्राप्नुवति यस्मिन् तेन (नः) अस्मान् (सुपथा) विद्याधर्मयुक्तेनाप्तमार्गेण (कृणु) कुरु (पूषन्) सर्वपोषकेश्वर प्रजापोषक सभाध्यक्ष वा (इह) अस्मिन्समये संसारे वा (क्रतुम) श्रेष्ठं कर्म प्रज्ञां वा क्रतुरिति कर्म्मना०। निघं० १।२। प्रज्ञाना० निघं० ३।९। (विदः) प्राप्नुहि। अत्र वा छन्दसि सर्वे विधयोभ० इति गुणविकल्पो लेट्प्रयोगोऽन्तर्गतो ण्यर्थश्च। सायणाचार्य्येणेदमडागमेन साधितम्। गुणप्राप्तिर्न बुद्धाऽतोस्यानभिज्ञता दृश्यते ॥७॥
भावार्थः -
अत्र श्लेषालंकारः। सर्वैर्मनुष्यैरेवं जगदीश्वरः प्रार्थनीयः। हे जगदीश्वर ! भवान् कृपयाऽधर्ममार्गादस्मान्निवर्त्य धर्ममार्गेण नित्यं गमयत्विति। विद्वानपि प्रष्टव्यः सेवनीयश्च भवान्नोऽस्माञ्छुद्धेन सरलेन वेदविद्यामार्गेण गमयत्विति ॥७॥
इस भाष्य को एडिट करें