Loading...
ऋग्वेद मण्डल - 1 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 42/ मन्त्र 8
    ऋषिः - कण्वो घौरः देवता - पूषा छन्दः - गायत्री स्वरः - षड्जः

    अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने । पूष॑न्नि॒ह क्रतुं॑ विदः ॥

    स्वर सहित पद पाठ

    अ॒भि । सु॒ऽयव॑सम् । न॒य॒ । न । न॒व॒ऽज्वा॒रः । अध्व॑ने । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥


    स्वर रहित मन्त्र

    अभि सूयवसं नय न नवज्वारो अध्वने । पूषन्निह क्रतुं विदः ॥

    स्वर रहित पद पाठ

    अभि । सुयवसम् । नय । न । नवज्वारः । अध्वने । पूषन् । इह । क्रतुम् । विदः॥

    ऋग्वेद - मण्डल » 1; सूक्त » 42; मन्त्र » 8
    अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 3

    अन्वयः - पुनस्तेन किं प्रापणीयमित्युपदिश्यते।

    पदार्थः -
    हे पूषंस्त्वमिहाऽधवने सुयवसं देशमभिनय तेन मार्गेण क्रतुं विदो येन त्वयि नवज्वारो न भवेत् ॥८॥

    भावार्थः - हे परमेश्वर ! भवान् स्वकृपया श्रेष्ठदेशं गुणाँश्चास्मभ्यं देहि। सर्वाणि दुःखानि निवार्य्य सुखानि प्रापय हे विद्वन् सभाध्यक्ष ! त्वमस्मान् विनयेन पालयित्वा विद्यां शिक्षयित्वाऽस्मिन्राज्ये सुखयेति ॥८॥

    इस भाष्य को एडिट करें
    Top