ऋग्वेद - मण्डल 3/ सूक्त 16/ मन्त्र 4
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑। आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम्॥
स्वर सहित पद पाठचक्रिः॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । स॒स॒हिः । चक्रिः॑ । दे॒वेषु॑ । आ । दुवः॑ । आ । दे॒वेषु॑ । यत॑ते । आ । सु॒ऽवीर्ये॑ । आ । शंसे॑ । उ॒त । नृ॒णाम् ॥
स्वर रहित मन्त्र
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः। आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम्॥
स्वर रहित पद पाठचक्रिः। यः। विश्वा। भुवना। अभि। ससहिः। चक्रिः। देवेषु। आ। दुवः। आ। देवेषु। यतते। आ। सुऽवीर्ये। आ। शंसे। उत। नृणाम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 16; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे मनुष्या यो विश्वा भुवनाऽभिचक्रिर्देवेषु सासहिर्दुवरा चक्रिर्देवेष्वा यतत उतापि नृणामाशंसे सुवीर्य्य आ यतते तं सदा सेवध्वम् ॥४॥
पदार्थः -
(चक्रिः) यः करोति सः (यः) (विश्वा) सर्वाणि (भुवना) भवन्ति येषु तानि भुवनानि (अभि) (सासहिः) अतिशयेन सोढा (चक्रिः) कर्तुं शीलः (देवेषु) दिव्यगुणेषु (आ) (दुवः) परिचरणं सेवनम् (आ) (देवेषु) प्रशंसकेषु (यतते) साध्नोति (आ) (सुवीर्य्ये) शोभने बले (आ) (शंसे) स्तुतौ (उत) (नृणाम्) वीरजनानाम् ॥४॥
भावार्थः - हे मनुष्या येन सर्वे लोका निर्मिता मनुष्यादयः प्राणिनस्तेषां निर्वाहायान्नादयः पदार्था रचिता यो विद्वद्भिर्वेद्यस्तस्यैव परमात्मनः सेवनं सततं कर्त्तव्यम् ॥४॥
इस भाष्य को एडिट करें