Loading...
ऋग्वेद मण्डल - 3 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 21/ मन्त्र 4
    ऋषिः - गाथी कौशिकः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑। क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । श्चो॒त॒न्ति॒ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो । श॒ची॒ऽवः॒ । स्तो॒कासः॑ । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ । क॒वि॒ऽश॒स्तः । बृ॒ह॒ता । भा॒नुना॑ । आ । अ॒गाः॒ । ह॒व्या । जु॒ष॒स्व॒ । मे॒धि॒र॒ ॥


    स्वर रहित मन्त्र

    तुभ्यं श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य। कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर॥

    स्वर रहित पद पाठ

    तुभ्यम्। श्चोतन्ति। अध्रिगो इत्यध्रिऽगो। शचीऽवः। स्तोकासः। अग्ने। मेदसः। घृतस्य। कविऽशस्तः। बृहता। भानुना। आ। अगाः। हव्या। जुषस्व। मेधिर॥

    ऋग्वेद - मण्डल » 3; सूक्त » 21; मन्त्र » 4
    अष्टक » 3; अध्याय » 1; वर्ग » 21; मन्त्र » 4

    अन्वयः - हे अध्रिगो शचीवो मेधिराऽग्ने ! ये स्तोकासो मेदसो घृतस्य तुभ्यं श्चोतन्ति तैः सह कविशस्तस्त्वं बृहता भानुना सूर्य इवागाः हव्या जुषस्व ॥४॥

    पदार्थः -
    (तुभ्यम्) (श्चोतन्ति) सिञ्चन्ति (अध्रिगो) योऽध्रीन्मन्त्रान् गच्छति जानाति तत्सम्बुद्धौ (शचीवः) शची प्रशस्ता प्रज्ञा विद्यते यस्य तत्सम्बुद्धौ (स्तोकासः) गुणानां स्तावकाः (अग्ने) अग्निरिव प्रकाशक (मेदसः) स्निग्धस्य (घृतस्य) आज्यस्योदकस्य वा (कविशस्तः) कविभिर्विद्वद्भिः प्रशंसितः (बृहता) महता (भानुना) तेजसा (आ) (अगाः) गच्छेः (हव्या) दातुमर्हाणि वस्तूनि (जुषस्व) सेवस्व (मेधिर) मेधाविन् ॥४॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथोदकेन सिक्त्वा वृक्षान् वर्द्धयित्वा फलानि प्राप्नुवन्ति तथैव सत्सङ्गेन सत्पुरुषान् सेवयित्वा विज्ञानादिफलानि प्राप्नुयुः ॥४॥

    इस भाष्य को एडिट करें
    Top