ऋग्वेद - मण्डल 3/ सूक्त 21/ मन्त्र 5
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे। श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि॥
स्वर सहित पद पाठओजि॑ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः॑ । उत्ऽभृ॑तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ । श्चोत॑न्ति । ते॒ । व्स् इति॑ । स्तो॒काः । अधि॑ । त्व॒चि । प्रति॑ । तान् । दे॒व॒ऽशः । वि॒हि॒ ॥
स्वर रहित मन्त्र
ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे। श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि॥
स्वर रहित पद पाठओजिष्ठम्। ते। मध्यतः। मेदः। उत्ऽभृतम्। प्र। ते। वयम्। ददामहे। श्चोतन्ति। ते। वसो इति। स्तोकाः। अधि। त्वचि। प्रति। तान्। देवऽशः। विहि॥
ऋग्वेद - मण्डल » 3; सूक्त » 21; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 21; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 21; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे वसो ! ते मध्यतो यदोजिष्ठं मेद उद्भृतं तत्ते वयं प्रददामहे ये स्तोकास्तेऽधित्वचि श्चोतन्ति तान् देवशः प्रति विहि ॥५॥
पदार्थः -
(ओजिष्ठम्) अतिशयेन बलिष्ठम् (ते) तव (मध्यतः) (मेदः) स्नेहः (उद्भृतम्) उत्कृष्टतया धृतम् (प्र) (ते) तुभ्यम् (वयम्) (ददामहे) (श्चोतन्ति) सिञ्चन्ति (ते) तव (वसो) वासहेतो (स्तोकाः) स्तावकाः (अधि) उपरिभावे (त्वचि) (प्रति) (तान्) (देयशः) देवान् (विहि) प्राप्नुहि। अत्रान्येषामपि दृश्यत इत्याद्यचो ह्रस्वः ॥५॥
भावार्थः - यो हि अतीव हृद्यं वस्तु यस्मै दद्यात्तेन तस्मै तादृशमेव देयं विदुषां सङ्गेन दिव्यान्गुणान्प्राप्नुवन्ति ते सर्वान्कोमलस्वभावान् कर्तुं शक्नुवन्तीति ॥५॥ अत्राग्निमनुष्यगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इत्येकाधिकविंशतितमं सूक्तमेकाधिकविंशतितमश्च वर्ग्गस्समाप्तः ॥
इस भाष्य को एडिट करें