ऋग्वेद - मण्डल 3/ सूक्त 6/ मन्त्र 8
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद॑न्ति दि॒वो वा॒ ये रो॑च॒ने सन्ति॑ दे॒वाः। ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑॥
स्वर सहित पद पाठउ॒रौ । वा॒ । ये । अ॒न्तरि॑क्षे । मद॑न्ति । दि॒वः । वा॒ । ये । रो॒च॒ने । सन्ति॑ । दे॒वाः । ऊमाः॑ । वा॒ । ये । सु॒ऽहवा॑सः । यज॑त्राः । आ॒ऽये॒मि॒रे । र॒थ्यः॑ । अ॒ग्ने॒ । अश्वाः॑ ॥
स्वर रहित मन्त्र
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः। ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः॥
स्वर रहित पद पाठउरौ। वा। ये। अन्तरिक्षे। मदन्ति। दिवः। वा। ये। रोचने। सन्ति। देवाः। ऊमाः। वा। ये। सुऽहवासः। यजत्राः। आऽयेमिरे। रथ्यः। अग्ने। अश्वाः॥
ऋग्वेद - मण्डल » 3; सूक्त » 6; मन्त्र » 8
अष्टक » 2; अध्याय » 8; वर्ग » 27; मन्त्र » 3
अष्टक » 2; अध्याय » 8; वर्ग » 27; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे अग्ने पावक इव तेजस्विन् ! ये ऊमा वा ये सुहवासो वा ये यजत्रा रथ्योऽश्वाः वा ये रोचने देवा अश्वाः सन्ति त उरावन्तरिक्षे दिव आयेमिरे तान् ये विदन्ति ते सदा मदन्ति ॥८॥
पदार्थः -
(उरौ) पुष्कले (वा) (ये) (अन्तरिक्षे) आकाशे (मदन्ति) हर्षन्ति (दिवः) प्रकाशः (वा) (ये) (रोचने) प्रकाशे (सन्ति) (देवाः) दिव्याः (ऊमाः) कमनीयाः (वा) (ये) (सुहवासः) सुष्ठ्वादातारः (यजत्राः) सङ्गताः (आयेमिरे) विस्तृणन्ति (रथ्यः) रथाय हिताः (अग्ने) पावकस्य* (अश्वाः) व्याप्तिशीलाः किरणाः। अश्व इति किरणनाम०। निघं० १। ५ ॥८॥
भावार्थः - हे मनुष्या यूयं प्रसिद्धाऽप्रसिद्धरूपस्याग्नेर्ये किरणा गुणाश्च सर्वेषां प्रकाशका यानेभ्यो हिता आकर्षकास्सन्ति तान् विदित्वा सर्वेषां प्राणिनां रक्षका भवत ॥८॥
इस भाष्य को एडिट करें