Loading...
ऋग्वेद मण्डल - 3 के सूक्त 6 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 6/ मन्त्र 9
    ऋषिः - गाथिनो विश्वामित्रः देवता - अग्निः छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ् ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑। पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व॥

    स्वर सहित पद पाठ

    आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वाङ् । ना॒नाऽर॒थम् । वा॒ । वि॒ऽभवः॑ । हि । अश्वाः॑ । पत्नी॑ऽवतः । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥


    स्वर रहित मन्त्र

    ऐभिरग्ने सरथं याह्यर्वाङ् नानारथं वा विभवो ह्यश्वाः। पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व॥

    स्वर रहित पद पाठ

    आ। एभिः। अग्ने। सऽरथम्। याहि। अर्वाङ्। नानाऽरथम्। वा। विऽभवः। हि। अश्वाः। पत्नीऽवतः। त्रिंशतम्। त्रीन्। च। देवान्। अनुऽस्वधम्। आ। वह। मादयस्व॥

    ऋग्वेद - मण्डल » 3; सूक्त » 6; मन्त्र » 9
    अष्टक » 2; अध्याय » 8; वर्ग » 27; मन्त्र » 4

    अन्वयः - हे अग्ने ! येऽग्नेर्विभवोऽश्वा नानारथं वा त्रीन् त्रिंशतं च पत्नीवतो देवाननुष्वधमावहन्ति य एभिस्त्वमर्वाङूर्ध्वं सरथमायाह्यस्मानावह मादयस्व च ॥९॥

    पदार्थः -
    (आ) समन्तात् (एभिः) (अग्ने) अग्निवज्ज्ञानेन प्रकाशमय (सरथम्) रथैः सह वर्त्तमानम् (याहि) (अर्वाङ्) योऽवस्तादञ्चत्यधो गच्छति सः (नानारथम्) नाना रथा यस्मिँस्तम् (वा) (विभवः) व्यापकाः (हि) खलु (अश्वाः) किरणाः (पत्नीवतः) प्रशस्ताः पत्न्यो विद्यन्ते येषान्तान् (त्रिंशतम्) (त्रीन्) (च) (देवान्) पृथिव्यादीन् (अनुष्वधम्) अन्वन्नम् (आ) (वह) (मादयस्व) आनन्दय ॥९॥

    भावार्थः - यथाऽग्निस्त्रयस्त्रिंशतः पृथिव्यादीन् दिव्यगुणान् पदार्थान्धरति तत्र व्यापको भूत्वा स्वसरूपान्करोति तथा विद्वांसो विज्ञानेन सर्वान् विज्ञायान्यान् प्रत्युपदिश्यानन्दन्ति ॥९॥

    इस भाष्य को एडिट करें
    Top