ऋग्वेद - मण्डल 4/ सूक्त 16/ मन्त्र 21
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥२१॥
स्वर सहित पद पाठनु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥
स्वर रहित मन्त्र
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो३ न पीपेः। अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥
स्वर रहित पद पाठनु। स्तुतः। इन्द्र। नु। गृणानः। इषम्। जरित्रे। नद्यः। न। पीपेरिति पीपेः। अकारि। ते। हरिऽवः। ब्रह्म। नव्यम्। धिया। स्याम। रथ्यः। सदाऽसाः ॥२१॥
ऋग्वेद - मण्डल » 4; सूक्त » 16; मन्त्र » 21
अष्टक » 3; अध्याय » 5; वर्ग » 20; मन्त्र » 6
अष्टक » 3; अध्याय » 5; वर्ग » 20; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे हरिव इन्द्र ! त्वं गृणानस्सञ्जरित्रे नद्यो नेषन्नु पीपेर्यैस्सर्वैर्नु स्तुतोऽकारि तैस्ते तुभ्यं नव्यं ब्रह्म सदासा वयं धिया रथ्यो न कृतवन्तः स्याम ॥२१॥
पदार्थः -
(नु) सद्यः। अत्र सर्वत्र ऋचि तुनुघेति दीर्घः। (स्तुतः) प्रशंसितः (इन्द्र) (नु) (गृणानः) प्रशंसन् (इषम्) अन्नाद्यैश्वर्यम् (जरित्रे) स्तावकाय (नद्यः) (न) इव (पीपेः) प्यायय (अकारि) (ते) तव (हरिवः) प्रशंसिताऽश्वः (ब्रह्म) असङ्ख्यं धनम् (नव्यम्) नवीनम् (धिया) प्रज्ञया कर्मणा वा (स्याम) (रथ्यः) रथेषु साधुः (सदासाः) दासैः सेवकैस्सह वर्त्तमानाः ॥२१॥
भावार्थः - अत्रोपमालङ्कारः । यो मनुष्यः परीक्षकः सर्वत्र प्रशंसितो नदीवत्प्रजानां तर्प्पकोऽश्व इव सुखेन स्थानान्तरं गमयिता भवेत् तं सर्वाधीशं कृत्वा सभृत्या वयं तदाऽज्ञायां वर्त्तित्वा सर्वे सततं सुखिनो भवेमेति ॥२१॥ अत्रेन्द्रराजाऽमात्यविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥२१॥ इति षोडशं सूक्तं विंशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें