Loading...
ऋग्वेद मण्डल - 4 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 16/ मन्त्र 20
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    ए॒वेदिन्द्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथ॑म्। नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥२०॥

    स्वर सहित पद पाठ

    ए॒व । इत् । इन्द्रा॑य । वृ॒ष॒भाय॑ । वृष्णे॑ । ब्रह्म॑ । अ॒क॒र्म॒ । भृग॑वः । न । रथ॑म् । नु । चि॒त् । यथा॑ । नः॒ । स॒ख्या । वि॒ऽयोष॑त् । अस॑त् । नः॒ । उ॒ग्रः । अ॒वि॒ता । त॒नू॒ऽपाः ॥


    स्वर रहित मन्त्र

    एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम्। नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥२०॥

    स्वर रहित पद पाठ

    एव। इत्। इन्द्राय। वृषभाय। वृष्णे। ब्रह्म। अकर्म। भृगवः। न। रथम्। नु। चित्। यथा। नः। सख्या। विऽयोषत्। असत्। नः। उग्रः। अविता। तनूऽपाः ॥२०॥

    ऋग्वेद - मण्डल » 4; सूक्त » 16; मन्त्र » 20
    अष्टक » 3; अध्याय » 5; वर्ग » 20; मन्त्र » 5

    अन्वयः - यथा राजानः सख्या वियोषदुग्रस्तनूपाः सन्नोन्वविताऽसत्तस्मा इदेव वृषभाय वृष्ण इन्द्राय भृगवो रथं न ब्रह्म चिद्वयमकर्म ॥२०॥

    पदार्थः -
    (एव) (इत्) अपि (इन्द्राय) परमैश्वर्य्यप्रदाय (वृषभाय) वृषभ इव बलिष्ठाय (वृष्णे) बलिष्ठाय (ब्रह्म) महद्धनम् (अकर्म) कुर्य्याम (भृगवः) देदीप्यमानाः शिल्पिनः (न) इव (रथम्) (नु) सद्यः (चित्) (यथा) (नः) अस्माकम् (सख्या) मित्रेण (वियोषत्) सन्दधीत (असत्) भवेत् (नः) अस्माकम् (उग्रः) तेजस्वी (अविता) रक्षकः (तनूपाः) शरीरपालकः ॥२०॥

    भावार्थः - अत्रोपमालङ्कारः। यथा शिल्पिनो विद्यया पदार्थसम्प्रयोगेण विमानादीनि निर्माय श्रीमन्तो भूत्वा मित्राण्यभ्यर्चन्ति तथैव राजसत्कृता वयं राज्ञैश्वर्य्यं वर्धयित्वा सर्वान् राजादीन् सत्कुर्याम ॥२०॥

    इस भाष्य को एडिट करें
    Top