ऋग्वेद - मण्डल 4/ सूक्त 23/ मन्त्र 11
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥
स्वर सहित पद पाठनु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । सदा॒ऽसाः ॥
स्वर रहित मन्त्र
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो३ न पीपेः। अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
स्वर रहित पद पाठनु। स्तुतः। इन्द्र। नु। गृणानः। इषम्। जरित्रे। नद्यः। न। पीपेरिति पीपेः। अकारि। ते। हरिऽवः। ब्रह्म। नव्यम्। धिया। स्याम। रथ्यः। सदाऽसाः ॥११॥
ऋग्वेद - मण्डल » 4; सूक्त » 23; मन्त्र » 11
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 6
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 6
विषयः - पुनः प्रशंसापरत्वेन पूर्वविषयमाह ॥
अन्वयः - हे हरिव इन्द्र ! यस्य ते नव्यम्ब्रह्म येनाऽकारि तस्मै जरित्रे स्तुतो नद्यो नेषं दत्वा नु पीपेः सत्यं गृणानो धर्म्मं प्रापय्य नु पीपेः यथा वयं धिया पुरुषार्थेन रथ्यः सदासाः स्याम तथा त्वं भव ॥११॥
पदार्थः -
(नु) (स्तुतः) सत्याचारेण प्रशंसितः (इन्द्र) सत्यैश्वर्य्यप्रद (नु) (गृणानः) सत्याचारं स्तुवन् (इषम्) विज्ञानम् (जरित्रे) विद्यामिच्छुकाय (नद्यः) (न) इव (पीपेः) (अकारि) (ते) (हरिवः) (ब्रह्म) बृहद्विद्याधनम् (नव्यम्) (धिया) प्रज्ञया (स्याम) (रथ्यः) (सदासाः) ॥११॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! ये यथा युष्मासु धर्म्यां नीतिं स्थापयेयुस्तेषां सेवां कृत्वा सखायो भूत्वा सर्वा विद्या विजानीतेति ॥११॥ अत्र प्रश्नोत्तरमैत्रीशत्रुनिवारणसेनोन्नतिसत्याचारोत्कर्षवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥११॥ इति त्रयोविंशतितमं सूक्तं दशमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें