ऋग्वेद - मण्डल 4/ सूक्त 23/ मन्त्र 10
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रऋतदेवो वा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः। ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥१०॥
स्वर सहित पद पाठऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य॑ । शुष्मः॑ । तु॒र॒ऽयाः । ऊँ॒ इति॑ । ग॒व्युः । ऋ॒ताय॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । ग॒भी॒रे इति॑ । ऋ॒ताय॑ । धे॒नू इति॑ । प॒र॒मे इति॑ । दु॒हा॒ते॒ इति॑ ॥
स्वर रहित मन्त्र
ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः। ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥१०॥
स्वर रहित पद पाठऋतम्। येमानः। ऋतम्। इत्। वनोति। ऋतस्य। शुष्मः। तुरऽयाः। ऊम् इति। गव्युः। ऋताय। पृथ्वी इति। बहुले इति। गभीरे इति। ऋताय। धेनू इति। परमे इति। दुहाते इति ॥१०॥
ऋग्वेद - मण्डल » 4; सूक्त » 23; मन्त्र » 10
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 5
अष्टक » 3; अध्याय » 6; वर्ग » 10; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! यथर्त्ताय बहुले गभीरे पृथ्वी यथर्त्ताय परमे धेनू दुहाते तथर्तं ये येमानस्तथर्त्तं यो वनोति तथर्त्तस्य यः शुष्मस्तुरया उ गव्युरस्ति त इत् सदैव पूर्णं सुखं लभन्ते ॥१०॥
पदार्थः -
(ऋतम्) सत्यम् (येमानः) नियमयन्तः (ऋतम्) (इत्) एव (वनोति) याचते (ऋतस्य) (शुष्मः) बलम् (तुरयाः) शीघ्रतां प्राप्तम् (उ) (गव्युः) य आत्मनो गां पृथ्वीं वाचं वेच्छुः (ऋताय) सत्याय जलाय वा (पृथ्वी) भूम्यन्तरिक्षे (बहुले) बहुपदार्थयुक्ते (गभीरे) गम्भीराश्रये (ऋताय) सत्याय (धेनू) गावाविव वर्त्तमाने (परमे) प्रकृष्टे (दुहाते) प्रातः ॥
भावार्थः - हे मनुष्या ! ये मनुष्यशरीरं प्राप्य नियमेन सत्याचारं सत्ययाञ्चां कृत्या सद्यो धार्मिका जायन्ते भूमिसूर्य्यवत् सर्वेषां कामपूर्तिं कर्त्तुं शक्नुवन्ति ॥१०॥
इस भाष्य को एडिट करें